________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
काव्यमाला। गुहः-यदुत्तरीयमुत्प्लुत्य हनूमानग्रहीत् , तदेतद्देव, गुणानुरागिणा कुमारसुग्रीवेण सभाजयितुमुपस्थितवतो मम हस्ते देवस्य प्राभृतीकृतम् । (इति रामस्य हस्ते सीताया उत्तरीयमर्पयति ।)
रामः-(गृहीत्वा हृदये निधाय । सास्रम् ।) हा देवि विदेहराजनन्दिनि, कथमुत्तरीयशेषा दृश्यसे । (इति निमीलिताक्षो लक्ष्मणमवष्टभ्नाति ।)
लक्ष्मणः-(निःश्वस्य ।) सखे निषादराज, कुशलं सुग्रीवस्य । गुहः- अद्य त्वयि वार्तामनुयुञ्जाने । रामः-(खगतम् ।) जानन्नेव दशाननोऽपहरते नः प्रेयसीमैस्ति वा
चन्द्रापीडमुपासितुं स हि शिरोदाम खयं कृत्तवान् । तत्रासो रजनीचरस्य न पुनः कण्ठाटवीकर्तना
द्धिग्बाणैर्मम चन्द्रहासहतकक्षुण्णोऽयमध्वा वृतः ॥ २६ ॥ लक्ष्मणः-आर्य, कथमस्मासु वनौकसोऽपि सौजन्यमनुरुध्यन्ते ।।
रामः-किमुच्यते । सुग्रीवः सनाभिरयमस्माकम् । अस्य हि प्रभवो भगवानक्ष्वाकस्य राजर्षिवंशस्य प्रसविता सहस्रदीधितिः । (हृदयस्थमुत्तरीयं दृष्ट्वा ।) वत्स गुह, स्पृहयामि सुग्रीवहनूमतोर्दर्शनाय । तदृष्यमूकगामिनं मार्गावेदय । दृश्यते' इति दीर्घः । सभाजयितुं प्रीणयितुम् । प्राभृतमुपढौकनम् । ‘पासन' इति प्र. सिद्धम् । 'प्राभृतं तु प्रदेशनम्' इत्यमरः । अनुयुञ्जाने पृच्छति । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । जानन्नेवेति । नोऽस्माकं प्रेयसीं सीतां जाननेव । यद्वा जाननेव ।रक्षो. नाशहेतूनस्मानिति भावः । अपहरते चोरयति, नयति वा । अस्ति वेति लोकोक्तिः । इदं पुनर्वर्तत इत्यर्थः । हि यतः स रावणश्चन्द्रापीडं महादेवमुपासितुं वयं शिरोदाम कृत्तवान् । तत्तस्मात्पुनः कण्ठाटवीकर्तनादपि रावणस्य न वा त्रासः । चन्द्रहासो रावणखड्गः । स एव हतको निन्द्यः । तेन क्षुण्णः प्रहतोऽयमध्वा मार्गः शिरश्छेदरूपो वृतो. ऽन्विष्टः, प्रार्थितो वा । मम वाणैः । अत्र धिक् । गर्हेत्यर्थः । वनौकसो वानराः । अनुरुध्यन्ते कामयन्ते । 'अनोरुध कामे' दिवादिः । किमुच्यते । अपि तु नास्ति वागवसरः । यतोऽस्माकमयं सनाभिः खजनः । 'सपिण्डास्तु सनाभयः' इत्यमरः । प्रभवत्यस्मादिति प्रभव उत्पत्तिस्थानम् । प्रसविता जनकः । दर्शनायेति ‘स्पृहेरीप्सितः' इति
१. 'तदेतदेव'. २. 'अवलम्बते'. ३. 'अस्तु'. ४. 'किमस्मासु'. ५. 'भगवान्' इति पुस्तकान्तरे नास्ति. ६. 'आदेशय'.
For Private and Personal Use Only