________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः] अनर्घराघवम् ।
२०१ यदस्त्रैः पाप्मानं रजनिचरजन्मग्रहसृज
विजित्य खर्लोकानविकलमुपातिष्ठत दनुः ॥ २४ ॥ रामः-साधु वृत्तम् । शिवाः सन्तु तस्य देवयानाः पन्थानः । वत्स गुह, वियति विवर्तमानः कश्चिदचल इव लक्षितः किमसौ तेनैव योजनबाहुना प्रहरणीकृतः। गुहः-देव,
दुन्दुभि नाम दैत्येन्द्र निष्पिपेष कपीश्वरः ।
तस्य कङ्कालकूटोऽयं कुमारेण विलोडितः ॥ २५॥ तन्निमित्तजन्मा संप्रति वालिनो महानभियोगः संभाव्यते ।
लक्ष्मण:-ततः किम् ।
रामः-वत्स, मा भैवम्। माननीयः खल्वसौ पुराणवीरो महेन्द्रसूनुः । (गुहं प्रति ।) कुतः पुनरागच्छतो वत्सस्य योजनबाहुरन्तरायः संवृत्तः ।
गुहः-~-देव, व्योमयानेन सत्वरमपक्रामति रावणे सीतादेव्याः
रामः-(साशङ्कमात्मगतम् ।) किं पुनरस्याः । ह्मणादीनां विनेता । 'दृप्तानाम्' इति पाठे दर्पशालिनां जयकर्ता । दिविषदां देवानामभयदुर्ग न भयं यस्मादेतादृशदुर्गम् । यद्वा अभयार्थ दुर्ग दुर्गस्थानम् । लक्ष्मणविशेषणम् । अजहल्लिङ्गतयान्वयः । यद्यपि कनिष्टः काकुत्स्थः शत्रुघ्नस्तथापि संनिहितत्वात्प्रकृते लक्ष्मणस्यैवान्वयः । यदस्त्रैर्लक्ष्मणास्त्रैः। दनुदैत्यविशेषः । रजनिचरो दानवो राक्षसो वा। एकक्रियाकारितया साम्यम् । तस्य जन्मने ग्रह आसक्तिस्तत्सृजं तज्जनकम् । यद्वा दानवजन्मरूपो ग्रही दुष्टग्रहस्तज्जनकं पाप्मानं पापं विजित्य स्वांल्लोकानुपातिष्ठत संगतवान् । संगतिकरणे तङ् । एष खलु गन्धर्वो लक्ष्मणाद्विनाशं प्राप्य वर्गमागमिप्यतीति शापान्तः । तेन वर्ग गत इति भावः । वृत्तं निष्पन्नम् । देवैर्गम्यते यैस्ते देवयानाः । करणे ल्युट । विवर्तमानो भ्राम्यन् । असौ अचलः। योजनबाहुना कबन्धेन । 'विदुर्योजनबाहुं तं कबन्धमुदरे मुखम्' इति पुराणम् । प्रहरणमस्त्रम् । निष्पिपेष चूर्णयामास । कपीश्वरो वाली । 'स्याच्छरीरास्नि कङ्कालः' इत्यमरः । कुमारेण लक्ष्मणेन । विलोडितो धनुष्कोट्या विक्षिप्तः । अभियोगो युद्धोद्यमः,रोषो वा मा मैवम् । वाच्यमिति शेषः । अत्यन्तनिषेधार्थ द्विरुक्तिः । वत्सस्य तव । गुहस्येत्यर्थः । अन्तरायो विघ्नः । 'अन्तरा वृत्तः' इति पाठे पथि मध्यवर्ती भूत इत्यर्थः । व्योमयानेन विमानेन । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । यद्वा आकाशगमनेन । हनूमानिति 'अन्येषामपि १. 'पुनर्वालिनो'. २. (साशङ्कम् ।) किं तस्याः'; 'किमस्याः'.
अन० १८.
For Private and Personal Use Only