________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
काव्यमाला।
लक्ष्मण:-(सखेदमात्मगतम् ।) केन पुनरेष रसो रसान्तरेण तिरस्क्रियते।
(नेपथ्ये।) आः पाप कबन्धहतक, अयं न भवसि ।
रामः-(आकर्ण्य । ससंभ्रमम् ।) वत्स लक्ष्मण, दुरात्मना दनुकबन्धेन कलहायमानो वयस्यस्ते गुह इव श्रूयते । बहुच्छलानि रक्षांसि । तत्त्वरितमभ्युपपद्यख ।
लक्ष्मणः-तथा । (इति निष्क्रान्तः ।)
रामः-(पार्श्वतोऽवलोक्य । सकरुणम् ।) देवि वामशीले सीरध्वजराजनन्दिनि, इयं ते विश्वविस्रम्भमर्मवेदिनी निचुलनिकुञ्जलेखा । इह हि
खवपुषि नखलक्ष्म स्वेन कृत्वा भवत्या
कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति रहसि मया ते भीषितायाः स्मरामि
स्मरपरिमलमुद्राभङ्गसर्वसहायाः ॥ २३ ॥ (इति धनुरवष्टभ्य लक्ष्मणवृत्तान्तदत्तचेतास्तथैवास्ते ।)
(ततः प्रविशति लक्ष्मणो गुहश्च ।) गुहः-जयतु जयतु देवः । विनेता वर्णानामयमभयदुर्ग दिविषदां
कनिष्ठः काकुत्स्थो जयति जगदाश्चर्यचरितः ।
वम्' इति । हे सब्रह्मचारिणि सहाध्यायिनि । कबन्धो नामासुरभेदः । अयं न भवसि इदानीमेव न भविष्यसि । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । कलहायमानो युद्धं कुर्वन् । 'शब्दवैर-' इति क्यङ् । उपपद्यख त्रायस्व । गुह इव श्रूयत इत्यनेन भविष्यद्गुहप्रवेशः सूचितः । विश्व विस्रम्भमर्मवेदिनी समस्त विश्वासतत्त्वज्ञा । निचुलो हिजलः । लेखा राजिः । चतुराणां विदग्धानाम् । दर्शयिष्ये 'अभिवादिदृशोरात्मनेपदस्योपसंख्यानम्' । इत्यनेन प्रकारेण रहस्येकान्ते ते स्मरामि त्वां स्मरामि । 'अधीगर्थ-' इति कर्मणि षष्टी । भीषितायास्त्रासितायाः । 'भियो हेतुभये षुक्' । स्मरः कंदर्पस्तस्य परिमलो मर्दस्तस्य मुद्रा निश्चयस्तेन भङ्गः पराभवस्तस्य सर्वसहायाः । 'पू:सर्वयोर्दारिसहोः' इति खच् । विनेता रक्षको विनयकर्ता वा । वर्णानां ब्रा
१. 'सीरध्वजनन्दिनि'. २. 'नर्मविस्रम्भमर्मभेदिनी'. ३. 'जयति जयति'.
For Private and Personal Use Only