________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः]
अनर्घराघवम् । अभिनवधनव्यूढोरस्कः प्रवर्षति माल्यवा
विपधरवधूगर्भाधानप्रियंकरणीरपः ॥ २१ ॥ वत्स लक्ष्मण, धारय माम् । न शक्नोमि स्तम्भयितुमात्मानम् ।
इयमविरलश्वासा शुध्यन्मुखी मिदुरखरा
तनुरवयवैः श्रान्तस्रस्तैरुपैति विवर्णताम् । स्फुरति जडता बाप्पायेते दृशौ गलति स्मृति
मयि रसतया शोको भावश्चिरेण विपच्यते ॥ २२ ॥ इति लक्ष्मणेन धार्यमाणो निमीलिताक्ष एव ।) हा प्रिये दण्डकारण्यविहारसब्रह्मचारिणि । (इति पुनः संवृणुते ।) विधिर्वा । 'अर्को महोत्सवे पूजाविधी मूल्येऽपि दृश्यते' इति विश्वः । शिखण्डभृतां मयूराणाम् । यथामिलितं कालोपस्थितवस्त्वनतिक्रमेण । 'यथा सादृश्ये' इत्यव्ययीभावः । कदम्बो नीपवृक्षः । विभूतिः पुष्पादिसंपत्तिः । नवमेघेन व्यूढं विन्यस्तं संहतं वा उरो मध्यं यस्य सः । व्यूढः संहतविन्यस्तपृथुलेष्वभिधेयवत्' इति मेदिनीकरः। विषधरः सर्पः । अप्रियं प्रियं क्रियते याभिस्ताः प्रियकरणीः । 'आद्यसुभग-' इति ख्युन् । अपो जलानि । स्तम्भयितुं स्थिरीकर्तुम् । आत्मानं देहम् । ननु कुतो हेतोरात्मानं स्तम्भयितुं न शक्यत इत्यत आह--इयमिति । इयं तनुः शरीरमवयवैः करचरणादिभिः करणभूतैर्विवर्णतामुपैति । कीदृशैः । श्रान्ताः परिश्रान्ता अत एव स्रस्ता इतस्ततः पतनशीलाः । अबलत्वात् । तैरविरलो निरन्तरः श्वासो यस्यां तादृशी । अत एव शुष्यन्मुखं यस्यां तादृशी। भिदुरखरा भिनखरा । घर्घरखरेति यावत् । कुतस्तनुवर्ण्यमुपैतीत्यत आह-मयि मद्विषये शोकः स्थायिभावश्चिरेण रसतया करुणरूपेण विपच्यते परिणतो भवति । भाव एव शोकादिः करुणादिरसतां याति । तथा चोक्तं रसप्रकाशे-'प्रेमरूपो रसो ज्ञेयः शृङ्गारादिप्रभेदवान् । काव्याथै भावयत्येष भाव इत्यभिधीयते ॥ आलम्बन विभावेभ्यः स्वेभ्यः स्वेभ्यः समुन्मिषन् । रसो रत्यादिरूपेण भाव इत्यभिधीयते ॥ रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विम्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ भावा एवाभिसंपन्नाः प्रयान्ति रसताममी। यथा द्रव्याणि भिन्नानि मधुरादिरसात्मताम् ॥' कुतः शोकः परिणतो भवतीत्यत आहजडता जाड्यं स्फुरति । दृशौ चक्षुषी बाप्पायेते अश्रूण्युद्वमतः । 'बाप्पोष्मभ्यामुद्वमने' इति क्यङ् । ['वा क्यषः' इति तङ् । स्मृतिश्च गलति । तथा च शोकस्यैवाभिनयोऽयम् । तथा च रसप्रकाशे-'जाड्यं शरीरे नयने बाष्पोद्रेकः स्मृतिक्षयः । शोके सति भवेदे
१. 'मधुरम्वरा'. २. 'श्रान्तश्रान्तैः'. ३. 'गलिता'. ४. 'इति' पुस्तकान्तरे नास्ति.
For Private and Personal Use Only