________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः] अनर्घराघवम् ।
१९७ रामः-(दीर्घ निःश्वस्य ।) वत्स, सहजधैर्यवशंवदवृत्तयो हृदि रुषश्च शुचश्च नियन्त्रिताः । इह तु किं करवै यदपत्रपा किमपि मामवमत्य विजृम्भते ॥ १६ ॥
लक्ष्मणः-(पुरोऽवलोक्य ।) आर्य, अयमग्रे तातजटायुषो वीरलोकसाधनसिद्धक्षेत्रमरण्यानीसंनिवेशः । पश्य ।
भग्नोऽयं कथमस्ति रावणरथस्तातेन वज्राङ्कर.
कृरीपस्किरमाणभङ्गुरनखत्रोटित्रुटद्वन्धनः । रामः-(सकरुणम् ।) हा सीरध्वजराजपुत्रि स तदा दृष्टस्त्वया धन्यया
पक्षीन्द्रो दशकण्ठकुञ्जरशिरःसंचारिपञ्चाननः ॥ १७ ॥ (इति लक्ष्मणमवष्टभ्य ध्यानं नाटयति ।)
लक्ष्मणः-(स्वगतम् ।) महादोषः खल्वयमतिप्रसज्यमानो मानसः शोकाख्यो विकारः । तदन्यतः प्रेरैयामि । (प्रकाशम् ।) आर्य, पश्य पश्य ।
विन्ध्यगिरिराजकन्यान्तःपुरमेतास्तरङ्गमालिन्यः ।
वेतस्वतीभिरद्भिस्तौर्यत्रिकगुण निकां दधते ॥ १८ ॥ 'सत्यापपाश-' इति णिच । सहजेत्यादि । खाभाविकधैर्येण वशंवदा आयत्ता वृत्तयो व्यापारा यासां ताः शुचः शोकाः, रुषः क्रोधाश्च हृदि चित्ते नियन्त्रिता नियमिताः । इह पुनः किं करवै करवाणि । आत्मनेपदे 'एत ऐ' । यत् अपत्रपा अन्यतो लज्जा किमप्यनिर्वचनीयं यथा स्यादेवं मां विजित्य विज़म्भते स्फुटीभवति । रोषाः शोकाश्च साहजिकधैर्यायत्तव्यापारा भवन्तीति ते नियमिताः, अपत्रपा तु न धैर्यनिवारणीयेति किं करिष्यामीति भावः । वशंवदेति 'प्रियवशे वदः खच्' । 'अरुर्द्विषदजन्तस्य-' इति तुम् । 'लज्जा सापत्र पान्यतः' इत्यमरः । 'मन्युशोकौ तु शुक्रियाम्' इति च । 'रुट्क्रुधौ स्त्रियाम्' इत्यपि । वीरस्य युद्धे मरणाद्यो लोको भुवनं तस्य साधनं हेतुः । भन्नोऽयमिति । तातेन जटायुषा वज्राग्रवत्क्रूरे भयंकरे अपस्किरमाणे विदारयन्त्यौ तत एव भङ्गुरे खतः कुटिले ये नखत्रोटी ताभ्यां त्रुटद्वन्धनं यत्र सः । अपस्किरमाणेति ‘किरतेहपजीविकाकुलायकरणेषु' इति तङ् । पूर्ववत्सुट् ।त्रोटिश्चञ्चुः । 'चञ्चुत्रोटिरुभे स्त्रियौ' इत्यमरः । पञ्चाननः सिंहः । ध्यानं नाटयति । मूर्छतीत्यर्थः ।
१. 'दीर्घमुष्णं च'. २. 'अयमेवाग्रे'. ३. 'सिद्धिक्षेत्रमरण्यसंनिवेश:'.४. 'अपस्क्रियमाण-'. ७. 'महान्दोषो हि'. ६. 'मानसः' इति पुस्तकान्तरे नास्ति. ७. 'प्रतिसारयामि'. ८. 'बहुवेतसाभिः'.
For Private and Personal Use Only