________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(प्रविश्य ।) रामः-आकाशे लक्ष्यं बना ।) कुले वा शौर्ये वा भुजसमुदये वा तपसि वा
बभूवुनै प्राञ्चस्त्वमिव भवितारो न चरमे । अहो दिड्योहस्ते समजनि चिरादेष न खलु
प्रवीराणां पन्था दशवदन येनासि चलितः ।। १३ ॥ (विमृश्य । सखेदस्मितम् ।) हंहो पौलस्त्य,
सिद्धश्रोत्रपरम्परापरिगतैरेभिः प्रपौत्रस्य ते
वृत्तैरद्य पुलस्त्यवर्जमभितः स्मरेषु देवर्षिषु । विष्वग्वृत्तिरसंगता नमयितुं दुर्वारलज्जाभर
म्लानश्रीस्तु चतुर्मुखी भगवतो धातुः कथं वर्तते ॥ १४ ॥ (क्षणमनुध्याय ।) हा प्रिये विदेहराजपुत्रि । (इति संवरणं नाटयति ।)
लक्ष्मणः-(उपसृत्य ।) आर्य, कोऽयमभिषङ्गो नाम भवादृशानप्यास्पदीकरोति ।
पैंतिते व्यसने दैवादारुणे दारुणात्मनि ।।
संवर्मयति वज्रेण धैर्य हि महतां मनः ॥ १५ ॥ समुदयः सङ्ग्राम उच्छायो वा । प्राञ्चः पूर्वे । चरमे पश्चाद्भवाः । 'प्रथमचरम-' इति वा सर्वनामसंज्ञा । भवितारो भविष्यन्ति । लुट् । दिङ्मोहो दिग्भ्रमः । समजनि जातः । कर्तरि चिण् । खलु एवार्थे । सुभटानामेष पन्था नैवेत्यर्थः । येन पथा। हहो संबोधने । वृत्तेश्चरित्रः सीतापहारखरूपैः । अभितः सर्वतः । पुलस्त्यवजे पुलस्त्यापत्यत्वाद्रावणस्य । स्मेरेषु किंचिद्धासवत्सु सत्सु । विश्वग्वृत्तिश्चतुःपावर्तिनी । अत एव नमयितुमसंगता । अन्योन्याकर्षणात् । कथं वर्तते । अपि तु केनापि प्रकारेण स्थातुं न शक्ता भवति । लज्जया पुरुषेण मुखं नम्रीकृत्य स्थीयते इति खभावः । चतुर्मुखस्य तदपि न संभवतीति भावः । अभिषङ्ग आसङ्गो दुःखं पराभवो वा । 'अभिषङ्गो मतो दुःखे आसङ्गेऽपि पराभवे' इति विश्वः । आस्पदं स्थानम् । व्यसनेऽनिष्टफले । दारुणे भीषणे । दारुणात्मनि महाखरूपे जने । 'दारुणो भीषणे गुरौ' इति शाश्थतः। धैर्य धीरता पाण्डित्यं वा कर्तृ । साधूनां मनः कर्म । वज्रेण संवर्मयति वर्मणा संनह्यते ।
१. 'ततः प्रविशति रामः'. २. धिङ्मोहः'. ३. 'कथयति'; 'कथमिह'. ४. 'पतति व्यसने'; 'पतितव्यसने'. ५. 'दारुणात्'. ६. 'दारुणात्मनः'.
For Private and Personal Use Only