________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः] अनर्घराघवम् ।
१९५ त्वदुरसि विदधातु खामपस्कारकेलिं कुटिलकरजकोटिक्रूरकर्मा जटायुः ॥ ११ ॥
(इति निष्कान्तौ ।)
विष्कम्भकः ।
(ततः प्रविशति लक्ष्मणः । लक्ष्मणः-अहो दुर्निवारदारुणक्रोधशोकलज्जागहनो विषमोऽयं दशाविवर्तः । यस्मिन्नितिकर्तव्यताभिधानमप्यस्माकमनौपयिकम् । तथाहि तत्तादृग्दशकण्ठवञ्चनरुषा धूमायमानो गिरं
ना|क्तप्रविलीनवर्णविधुरामार्यः समाप्नोति मे । चापे तातजटायुजीवितकथापर्यन्तधूमायित
___ क्रोधोत्पीडनिपीतशोकजडिमा दृष्टिस्तु विश्राम्यति ॥ १२ ॥ (नेपथ्यामिमुखः ।) इत इत आर्य मारीचमथन, दृश्यन्ताममूरवाची ककुभबभि वर्धमाना विन्ध्यवनवीथिभूमयः ।
कीदृशः । चौरंकारं चौरवत्कृत्वाश्यमानः । चोरिकामुच्चार्य वाक्रुश्यमानः । 'कर्मण्याकोशे कृजः खमुज' । नखैर्विदारणमपस्कारः । 'अपाच्चतुष्पात्-' इत्यादिना सुट् । करजो नखः कोटिरग्रम् । क्रूरं कठिनम् । दारुणो महान् । गहनो गभीरः । विवर्तः परिणामः । इतिकर्तव्यतेदं कृत्वेदं कर्तव्यमिति ज्ञानम् । अनौपयिकमयुक्तम् । 'युक्तमोपयिकं लभ्यम्' इत्यमरः । 'उपायाद्रस्वश्च' इति ठक् हृखत्वं च । तत्तादगिति । तत्ताहक्सीतापहरणरूपं वञ्चनं भर्त्सनम् । रुषा क्रोधेन । धूमायमानो धूममुद्वमन् । वह्निरिव । 'फेनाच' इति चकारात्क्यङ् । आर्यों मे मम कृते गिरं वाणीं न समाप्नोतीति संबन्धः। रोषवशादोक्त एव प्रविलीनो ध्वस्तो यो वर्णस्तेन विधुरां खण्डिताम् । चापे पुनदृष्टिविश्राम्यति । अर्थाद्रामस्य । तातोऽनुकम्प्यः । 'तातोऽनुकम्प्ये जनके' इति धरणिः । पर्यन्तोऽवसानम् । अनेन जटायुवधः सूचितः । धूमायितेति क्रोधस्याग्निना साधर्म्यात् । उत्पीडोऽतिशयः निपीतः शुष्कीकृतः शोकस्य जडिमा शीतलत्वं यया सा । मारीचमथन इत्यनेन मारीचवध उक्तः । अवाची ककुभं दक्षिणां दिशम् । अभि अभिमुखम् । 'अभिप्रती आभिमुख्ये' इति कर्मप्रवचनीयसंज्ञा । 'दक्षियस्यामवाच्येव' इति शब्दभेदः । 'दिशस्तु ककुभः काष्टाः' इत्यमरः। वीथिः पतिः ।
१. 'प्रविश्य'. २. 'समाप्नोत्ययम्.' ३. 'मुखम्'. ४. "विन्ध्याचल-'.
For Private and Personal Use Only