________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
काव्यमाला ।
(नेपथ्ये । पुनरन्यतः ।) किं भवान्रावणः ।
(जाम्बवान्सविशेषमवदधाति ।)
___ (नेपथ्ये । पुनरेकतः । भो वाचोयुक्तिज्ञ, सर्वेषां विद्रावणः खल्वहमिति समस्य व्याहृतमन्यथाभिसंधाय वाक्छलेन प्रत्यवतिष्ठमानो निगृहीतोऽसि । तन्मुञ्च मां भिक्षायै ।
(अन्यतः।) किं त्वया, किंतरां च रावणेन । अहमप्युत्सुकोऽस्मि । त्वरितं गच्छामि ।
जाम्बवान्-कथमेतदस्फुटार्थमेव निर्वहणम् । मन्ये पुनरेष परिव्राजकच्छलेन रावण एव कोपादुक्तमप्यपलप्य खं नाम द्रागपक्रान्तः । (सर्वतो निरूप्य ।) अये, पुराणप्रियसुहृदस्माकं दक्षिणस्या दिशः परापतञ्जटायुरिव लक्ष्यते । तदेनमनुपालयामि तावत् । दूरदृशो हि गृध्राः । कदाचिदेष लङ्काद्वीपवृत्तान्तमप्युपलभेत ।
(प्रविश्य ।) जटायुः-प्राप्तवेयमस्माभिः पञ्चवटी । यदमूर्गोदावरीतरङ्गसीकरसेकसुकुमारमांसलपरिसरारण्यमालिन्यो जनस्थानसीमानः । अपि च । स्फूर्तिकमर्थमाश्रित्याह-भवान्रावण इति । वाचोयुक्तिरुक्तिप्रत्युक्त्यादिः । 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' इत्यलुक् । अन्यथाभिसंधाय तात्पर्याज्ञानेन हेतुना वा वाक्छलेनोत्तरं ददनिगृहीतोऽसीत्यर्थः । यथा 'अयं नेपालादागतः । नवकम्बलवत्त्वात्' इति वादिवाक्ये 'कुतोऽस्य नवसंख्याकाः कम्बलाः' इत्युत्तरं ददत्प्रतिवादी वाक्छलेन निगृहीतो भवति, तथा 'सर्वविद्रावणोऽहम्' इति वाक्ये 'भवान्सर्वज्ञाता रावणः' इत्युत्तरं प्रयच्छन् लक्ष्मणो निगृहीत इति भावः । प्रत्यवतिष्ठमानः प्रत्यवस्थानं कुर्वन् । विरोधेनोपतिटमान इति यावत् । भिक्षायै भिक्षां याचितुम् । 'क्रियार्थोपपदस्य च-' इति चतुर्थी। किं त्वया, किंतरां च रावणेन । अपि तु न किमपि । उभयत्र किंशब्दो जुगुप्सायाम् । निर्वहणमुपक्रान्तस्योपसंहारः । 'उपक्रान्तस्य संहारो भवेनिर्वहणं त्विदम्' इति भरतः । परिव्राजको भिक्षुः । द्राक्शीघ्रम् । 'नासूचितं विशेत्पात्रम्' इति स्वरसाजटायुप्रवेशं सूचयितुमाह-अये इत्यादि । अये इति निर्लक्ष्यसंबोधने । दक्षिणस्या इत्यपादाने पञ्चमी । परापतनागच्छन् । अनुपालयाम्यपेक्षे । गृध्राः पक्षिभेदाः । वृत्तान्तं वार्ताम् । 'जटायुस्तु जटायुषा' इति शब्दभेदाज्जटायुशब्दे द्विरूपता । मांसलं धनम् ।
१. 'किं च'. २. 'पुराणसुहृत्', ३. 'अनुलपामि'. ४. 'पञ्चवटीभूः'.
For Private and Personal Use Only