________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः] अनर्घराघवम् ।
१९३ दृश्यन्ते मधुमत्तकोकिलवधूनिधूतचूताङ्कुर
प्राग्भारप्रसरत्परागसिकेतादुर्गास्तटीभूमयः । याः कृच्छ्रादतिलङ्घय लुब्धकभयात्तैरेव रेणूत्करै
र्धारावाहिभिरस्ति लुप्तपदवीनिःशङ्कमेणीकुलम् ॥ ६॥ जाम्बवान्–(किंचिदुपसृत्य ।) कुतः पुनरियता वेगेन वयस्यो जटायुः।
जटायु:-(दृष्ट्वा ।) कथं जाम्बवान् । सखे, क्षमख । न संभाजयिष्यामि तावद्भवन्तम् । मया हि मलयाचलकुलायादार्यसंपातिपादानभिवाद्य निवर्तमानेन मारीचसहचरः संचरन्निमामरण्यानीमभिलक्षितो राक्षसराजः । तदतिविषममाशङ्कमानं मां वत्सरामभद्रस्नेहस्त्वरयति ।
जाम्बवान्-(स्वगतम् ।) वयमप्येतदेव अंतिपित्सामहे । (प्रकाशम् ।) सखे, त्वरख । (इति निष्कान्तः ।) जटायुः-(परिकम्यावलोक्य च ।) इयमग्रे पञ्चवटी । (सवितर्कम् ।)
नीतो दूर कनकहेरिणश्रद्धया रामभद्रः
पश्चादेनं द्रुतमुपसरत्येष वत्सः कनिष्ठः । परिसरः समीपभूः । मालिन्यो मालायुक्ताः । 'ब्रीह्यादिभ्यश्च' इतीनिः । दृश्यन्त इति । तटीभूमयो जलस्थानपरिसरभूमयो दृश्यन्त इत्यन्वयः । मधुभिः पुष्परसैमत्ता याः कोकिलवध्वस्ताभिर्निर्धूतो यथूताङ्कुरप्राग्भारस्तस्मात्तस्य वा प्रसरन्तो ये परागाः पुष्परेणवस्त एव सिकता वालुकास्ताभिर्दुर्गा गहनाः । यद्वा मधुर्वसन्तस्तत्र मत्ता उत्साहशालिन्यो याः कोकिलवध्व इत्यादि पूर्ववत् । प्राग्भारो विस्तारः शिखरं वा । 'परागः सुमनोरजः' इत्यमरः । यास्तटीभूमयः । कृच्छ्रात्कष्टात् । लुब्धक आखेटिकः । धारावाहिभिः पुनः पुनरनुवर्तमानैः कूटीभूतैर्वा । एणीकुलं कर्तृ। रेणूत्करैलुप्तपदवीनिःशकं यथा स्यादेवमस्ति । कुलविशेषणमेव वा । सभाजयिष्यामि पूजयिष्यामि प्रीति करिष्यामि वा । 'समाज प्रीतिसेवनयोः'। कुलायः पक्षिगृहम् । संपातिर्जटायुषो ज्येष्ठनाता। सहचरो द्वितीयः । 'महारण्यमरण्यानी' इत्यमरः । अतिविषममत्यन्तकठिनम् । प्रतिपित्सामहे प्रतिपत्तुं ज्ञातुमिच्छामः । ‘पद गतौ' । सन् । 'सनि मीमा-' इतीस् । 'पूर्ववत्सनः' इति तङ् । श्रद्धाभिलाषः । कनिष्ठो लक्ष्मणः । ततो रामात् । बिभ्यत्रस्यत् । वीप्सायां द्विरुतिः । 'नाभ्यस्ताच्छतुः' इति नुनिषेधः । तत इति 'भीत्रार्थानां
१. 'संभावयिष्यामि'. २. 'पादावभिवन्द्य'. ३. 'प्रतिपत्स्यामहे'. ४. 'त्वरख त्वरख'. ५. 'हरिणच्छद्मना'.
For Private and Personal Use Only