________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः अनर्घराधवम् ।
१९१ श्रवणा-आर्य, किमिदानीमनुष्ठेयमस्ति । मम हि शिष्यपुत्रो निपादचक्रवर्ती गुहो लक्ष्मणमित्रम् । अनेन सोपानेन सुखाधिरोहो रघुपतिरस्साकम् ।
जाम्बवान्---(सहर्षस्मितम् ।) श्रवणे, यद्यसि सुग्रीवपक्षपातिनी । तद्वच्छ सत्वरमुपस्थापय निषादराजम् ।
(इति श्रवणा निष्क्रान्ता ।)
(नेपथ्ये । एकतः ।) भो भो लक्ष्मण, वैशेषिककटन्दीपण्डितो जगद्विजयमानः पर्यटामि । कासौ रोमः । तेन सह विवदिष्ये ।
(अन्यतः ।) भो भो परिव्राजक, कालसर्पखलीकारखर्जूलता न खलु सुखाकरी वृश्चिकमन्त्रतान्त्रिकस्य ।
जाम्बवान् कथं लक्ष्मणपरिव्राजको संलपतः । शृणोमि तावत् । (इत्यवधत्ते ।)
(नेपथ्ये । पुनरेकतः ।) आः लक्ष्मण, सर्वविद्रावणः खल्वहम् । को मया जनितमानभङ्गो न पराजीयते । मुग्रीवः ईषत्करः सुकरः। सोपानेनोपायेन । 'कटकली' इति प्रसिद्धेन । उपस्थापय लक्ष्मणसंनिधि प्रस्थापय । 'निषादराजानम्' इति पाठे समासान्तविधेरनित्यत्वं शरणम् । नेपथ्ये रावणवचनम् । कटन्दी वैशेषिकशास्त्रव्याख्याग्रन्थः । कटन्द इति यस्य प्र. सिद्धिः । सा च रावणेन कृतेति च्छलतो ज्ञापयति । 'कन्दली' इति पाठे कन्दली वैशेषिकटीका । सापि रावणेनैव कृता । अथ च कन्दली कलहवान् । पण्डितः सूरिः कुशलश्च । विवदिष्ये उदाहं करिष्ये योत्स्ये च । 'भासनोप-' इति तङ् । अन्यतच लक्ष्मणवचनम् । खलीकारो भर्सनम् । तत्र खजूः कण्डूः । तद्योगात्सिध्मादित्वाल्लच् । तस्य भावः खर्जूलता । न मुखाकरी न मुखजनिका। 'मुखप्रियादानुलोम्ये' इति डाच् । बृश्चिकमन्त्रतान्त्रिकस्य वृश्चिकमन्त्रज्ञातसिद्धान्तस्य । वृश्चिकः शूककीटः। 'वीछ' इति प्रसिद्धः । 'वृश्चिकः शूककीटौषधिविशेषयोः' इति विश्वः । 'तान्त्रिको ज्ञातसिद्धान्तः' इत्यमरः । संलपतः संलापं कुरुतः । 'संलापो भाषणं मिथः' इत्यमरः । सर्व विद्रावयतीति सर्वविद्रावणः सर्वविप्लवकर्ता । अथ च सर्ववित्सर्वज्ञो रावणः । अनयोः पुरः
१. 'सत्यमसि'. २. 'पण्डितोऽस्मि'. ३. 'ते रामभद्रः'. ४. 'विवदितव्यम्'. ५. 'कथं पथि'. ६. 'मिथः प्रलपतः', 'संप्रलपतः'. ७. 'इत्यवधत्ते' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only