________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
जाम्बवान्-(सातङ्कम् ।) अहह महाननर्थकन्दः संवृत्तः । अथ भगिन्यास्तादृशं विडम्बनमवलोक्य खरादिभिः किं प्रतिपन्नम् ।
श्रवणा-(विहस्य ।) आर्य, किं प्रतिपन्नम् । यद्रामभद्रे धृतधनुषि प्रतिपद्यते ।
जाम्बवान्—(सहर्षहासम् ।) तत्किं तेऽपि वालिसाहायकोपस्थायिनो विराधयात्राप्रहतमध्वानमनुप्रपन्नाः ।
श्रवणा-अथ किम् । जाम्बवान्–श्रवणे, प्ररूढमिदानी रामरावणयोर्वैरम् ।
श्रवणा-(हसन्ती ।) आर्य, मन्ये खरदूषणप्रभृतीनामभिभवाभिधाने केवलं क्लेशयिष्यति वाचमात्मनः । पुनरनक्षरमपि शूर्पणखामुखमावेदयिष्यति दशकंधरस्य । जाम्बवान्-(सस्मितम् ।) श्रवणे, लघूत्थमनर्थमुत्प्रेक्ष्य प्रमुग्धोऽस्मि । ऐक्ष्वाकेण पुरापि कौशिकमखादारभ्य लङ्केश्वरो
धत्ते शाश्वतिकं विरोधमधुना त्वेते हता बान्धवाः । उत्साहप्रभुमन्त्रशक्तिभिरलंभूष्णुच्छलज्ञो बली
दृप्तः शूर्पणखा निकारमपरं दृष्ट्वा कथं मृष्यते ॥ ५ ॥ शनैः शनैरनयोर्विरोधे संधुक्षमाणे तुल्यव्यसनस्थो दाशरथिरसहायः सूर्यसूनुना संघातुमीषत्करः स्यात् । श्चित्तं कृतवती । आतङ्कस्त्रासः । अहह खेदे । अनर्थकन्दोऽनिष्टमूलम् । विडम्बनं वर्षणम् । धृतधनुषीत्यत्र 'धनुषश्च' इत्यनङ् समासान्तो न भवति । समासान्तविधैरनित्यत्वात् । साहायकं सहायत्वम् । 'सहायाचेति वक्तव्यम्' इति वुञ् । यात्रा गमनम्। प्रहतं क्षुण्णम् । अभिभवो मारणम् । लघूत्थं शीघ्रोत्थानम् । ऐश्वाकेणेति। ऐक्ष्वाकेण सह । शश्वनित्यम् । तद्भवं शाश्वतिकम् । 'कालाह' । कौशिकयागादारभ्य नित्यं विरोधं धत्ते । अधुना पुनरेते बान्धवा हता यतः, अतोऽवश्यं विरोधं धत्त इति भावः । अपरं शूर्पणखानिकारं दृष्ट्वा कथं मृष्यते सहिष्यते । उत्साहशक्तिरुत्साहसामर्थ्यम् । प्रभु. शक्तिः प्रभावः । मन्त्रशक्तिर्मन्त्रणासामर्थ्यम् । अलंभूष्णुरतिसमर्थः । 'भुवश्च' इति रस्नुः । दृप्तो दर्पिष्टः । संधुक्षणं दीपनम् । व्यसनं वैरम् । सहायो द्वितीयः सूर्यसूनुः
१. 'साहाकस्थायिनों'. २. 'खरप्रभृतीनां'. ३. 'लघूत्थानम्'. ४. 'चैते'. ५. 'खल्यव्यसनस्थो'.
For Private and Personal Use Only