________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनर्घराघवम् ।
१८९
ऐषीकमस्त्रमधिकृत्य तदा तमक्षणा
काणीचकार चरमो रघुराजपुत्रः ॥ ३ ॥ जाम्बवान-ततस्ततः । श्रवणा--ततश्च
क्रमेणैव सुतीक्ष्णादीनुपस्थाय महामुनीन् ।
अगस्त्यशासनादास्ये पञ्चवट्यां रघूद्वहः ॥ ४ ॥ जाम्बवान-(सहर्षम् ।) तर्हि हस्तगत एवास्माकम् । कियदन्तरमृष्यमूकजनस्थानयोः ।
श्रवणा-आर्य, न खल्वद्यापि श्रोतव्यं शृणोषि । जाम्बवान्-अवहितोऽस्मि ।
श्रवणा-तत्र च कामुकी रामभद्रमनुप्रविश्य रैसं दास्यामीति संकल्पितपतिद्रोहपातकिनी शूर्पणखा लक्ष्मणरोषहुतभुजि कर्णनासौष्ठमयीभिस्तिसृभिराहुतिभिः प्रायश्चित्तयांचके । विददार विदारयति स्म त काकं चरमो रघुराजपुत्रो रामोऽक्ष्णा काणीचकार । 'येनाविकारः' इति तृतीया । इषीका वीरणशलाका । तस्या विकार ऐषीकमस्त्रमधिकृत्य व्यापार्य । विक्षिप्येति यावत् । कीदृशम् । अभिचारस्य मरणकारणयागस्य चरुभाण्डं हव्यभाण्डमिव । 'हव्यपाके चरुः पुमान्' इत्यमरः । ननु चरमशब्दस्य कनिष्टवाचकत्वाद्रामस्य ज्येष्ठत्वात्कथं चरमो रघुराजपुत्र इति । न च चरमशब्देन कनिष्ठ एव लक्ष्मणो वाच्य इति वाच्यम् । रामेणैवाक्षणा काणः काकः कृत इति रामायणे दृष्टत्वात् । किं च रघुराजपुत्रान्वितेन कनिष्ठवाचकचरमशब्देन शत्रुघ्नस्यान्वयात् । तस्य च तत्रासांनिध्यादिति चेत् , अत्र केचित्-'ज्वलति कसन्तेभ्यो णः' इति विकल्पेन णप्रत्ययः। तेन रमयतीति रमो रामः इति समाधानमाहुः। तन्मन्दम् । चकारानन्वयात् । न च विददारेति क्रियापेक्षया काणीचकार चेत्यत्रैव चकारान्वयः । भिन्नकर्तृकत्वात् । एककर्तृके हि चकारान्वयो दृष्टः । यथा-देवदत्तो ग्रामं गच्छति पचति चेति । अन्ये तु--चरा संचारिणी । गतेति यावत् । मा लक्ष्मीर्यस्य स चरमो रामः । भरतप्रविष्टराज्यलक्ष्मीकत्वात्-इति वर्णयन्ति । अपरे तु-'चरमो ज्येष्ठकनिष्ठयोः' इति विश्वप्रकाशदर्शनाचरमो ज्येष्टो रघुराजपुत्रः-इत्याहुः । इदं तु संगतमिव । कुव्याख्या तु विस्तरत्रासादुपेक्षिता। सुतीक्ष्णादीन्सुतीक्ष्णतृणबिन्दुशरभङ्गप्रभृतीन् । उपस्थाय संपूज्य । पञ्चवटी दण्डकारण्ये तपोवनम् । अन्तरं व्यवधानम् । कामुकी कामान्धा । 'लषपत-' इत्यादिना उकञ् । रसं विषविशेषम् । संकल्पितो मनसा कृतः। प्रायश्चित्तयांचके प्राय१. 'हस्तस्थः'. २. 'राममनु-'. ३. 'विषं'.
अन०१७
-
-
For Private and Personal Use Only