________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५ अङ्कः ]
अनर्घराघवम् ।
१८७
रात्रे संप्रकृतिजनपदः पितुः स्वर्गारोहणवार्ताभिधायी द्वितीयो दाशरथी रामभद्रमयोध्यामुपनेतुं तेनैव पथा चित्रकूटमुपगतः ।
Acharya Shri Kailassagarsuri Gyanmandir
जाम्बवान्
- ( शङ्कम् ) ततस्ततः ।
श्रवणा — ततश्च तस्मिन् 'आर्य, लोके कैकेयानामाकल्पमनल्पमकीर्तिस्तम्भं निखनता केनापि च्छलितस्तातः । तत्संप्रति गृहाण रंवूणामधिराज्यम्' इति पुनः पुनश्चिरमनुबन्धी रामेण सृष्टिकया प्रत्यादिष्टः कृतजटापरिग्रहो भरतः शरभङ्गमुनिप्रेषितामस्य पादुकां भद्रासनमधिरोप्य प्रजानामाभ्युदयिकमवेक्षमाणस्तदैव नन्दिग्रामं गतवान् ।
जाम्बवान् – (सहर्षम् 1 ) हन्त
फलितमस्मद्व्यवसायश्रवणापरिश्रमा
भ्याम् । ततस्ततः ।
श्रवणा - ततश्च शावाशैौचमास्थितस्य क्षत्रियैस्य प्रतिषिद्धमस्त्रग्रहणमिति च्छिद्रान्वेषिभिर्जनस्थानवास्तव्यैः खरदूषणप्रभृतिभिस्तत्र विरोधो नाम राक्षसस्तीक्ष्णः प्रहितः ।
जाम्बवान् — (विहस्य ।) धिङ्खः, आतिपातिके हि कार्ये राज्ञां सद्यः 'शुद्धिः । ततस्ततः ।
प्रकृतिः शिष्टः । द्वितीयो दाशरथिर्भरतः । तस्मिन्रामे पुनः पुनरनुबन्धीत्यन्वयः । 'आर्य' इति संबोधनम् । अनुबन्धी सस्नेहवचनः । आकल्पं यावत्संसारम् । निखनता आरोपयता । 'सृष्टिका शपथेऽपि च' इति रत्नकोषः । ' शरीरस्पृष्टिकया' इति पाठे शरीरस्पर्शरूपशपथेनेत्यर्थः । प्रत्यादिष्टो निषिद्धः । परिग्रहो ग्रहणम् । पादुका उपानत् । 'अथ पादुका । पादूरुपानत्' इत्यमरः । साध्वसाच्छरभङ्गमुनिद्वारा पादुका याचितेति भावः । भद्रासनं सिंहासनम् । आभ्युदयिकमभ्युदयम् । स्वार्थे ' विनयादिभ्यष्टक | शावाशौचं मृतकाशुद्धिः । ' शावमाशैौचं' इति पाठे 'नजः शुचीवर -' इत्यादिनोभयपदवृद्धिः । आस्थितः प्राप्तः । जनस्थानं मलयादिसमीपे रक्षोवासस्थानम् | वास्तव्यैवीसिभिः । वसेस्तव्यत् कर्तरि णिच्च । तीक्ष्णः खरः । ' खरात्मत्यागिनोस्तीक्ष्ण:' इति धरणिः । आतिपाति के तत्क्षणोपजाते । यद्वातिपातः शत्रोरागमनं तद्भवं कार्यमस्त्रग्रह
१. ‘प्रकृतिपौरजानपदः '. २. 'स्वर्गाधिरोहण -'. दाशरथिर्द्वितीयः’. ४. ‘सातङ्कम्'. ५. 'केनापि भूतेन'. `रनुबन्धी'. ७. ‘अस्य रामस्य'. ८. 'आरोग्य'. ९. ११. 'क्षत्रस्य निषिद्धम् . १२. 'विराधनामा'.
३. ' दाशरथिर्द्वितीयः', 'भरतो ६. ‘रघूणां धुरमिति पुनः पुन' अवेक्षिष्यमाणः '. १० 'गतः '. १३. 'विशुद्धिः . '
For Private and Personal Use Only