________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
काव्यमाला। तासामयं गुणमयः प्रथमः कुमारो
___ वीरोद्धतः पुनरसावपरस्तृतीयः ॥ १॥ जाम्बवान्-श्रवणे, साधूक्तम् । ततस्ततः ।
श्रवणा-ततश्चोदकान्तनिवर्तितानुयात्रिकबन्धुवर्गः ससंभ्रमोपेंगतेन गुहेनोपनीतां नावमधिरुह्य ।। तीवा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छ्रादवीयमानः क्षणमचलमथो चित्रकूटं प्रतम्थे ॥ २ ॥ जाम्बवान्–हन्त महत्करुणम् ।
श्रवणा-आर्य, करुणभयादेव तस्मिन्निगुदीतरुमूले कुमारयोर्जटाग्रहणवृत्तान्तमन्तरितवत्यस्मि ।
जाम्बवान्-श्रवणे, सर्वमेतत्कल्याणोदकै भैविप्यति । श्रवणा-अहं तु निषादपतिप्रीतये तत्रैवातिष्ठम् । अतीते च गण
कला अंशाः प्राप्ताः । तासां कलानां मध्येऽयं गुणमयो रामः प्रथमा कला । असावपरस्तृतीया कला लक्ष्मणो वीरोद्धतो नायकः । देवांशत्वात् । 'देवा वीरोद्धता ज्ञेयाः' इति प्रागेवोक्तत्वात् । यद्वा वीरेण रसेनोद्धत उपचितः । पुत्रीयतेति 'सुप आत्मनः क्यच् । 'क्यचि च' इति दीर्घत्वम् । उदकान्तो जलसमीपम् । 'आ उदकान्तं प्रियमनुव्रजेत्' इति स्मृतिः। अनुयात्रया चरत्यानुयात्रिकः । 'चरति' इति ठक् । संत्रमस्त्वरा । उपगतः समीपगतः । उपनीतामुपढौ किताम् । तीवेति। अमरधुनी गङ्गाम् । असौ राम आत्मना स्वेन तृतीयस्त्रिपूरणः सन्सौमित्रिमैत्रीमयं लक्ष्मणमैत्रप्रधानमातरं तरपण्यं 'खेव' इति प्रसिद्धं तस्मै नाविकाय कर्णधाराय गुहायोपहृतवान्दत्तवान् । 'आतरस्तरपण्यं स्यात्कर्णधारस्तु नाविकः' इत्यमरः । व्यामग्राह्यस्तनीभिरङ्कपालीग्राह्यपयोधराभिः । 'व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम्' इत्यमरः । कौतुकोदञ्चदक्षं कौतुकोन्नतचक्षुर्यथा स्यादेवम् । अन्वीयमानोऽनुगम्यमानः । इङ्गुदी पुत्रंजीववृक्षो मुञ्जनीवृक्षो वा । 'इङ्गुदी तापसतरौ पुत्रंजीवेऽपि चेङ्गुदी' इति विश्वः। अन्तरितवती त्यक्तवती । कल्याणोदक कल्याणोत्तरफलम् । 'उदर्कः फलमुत्तरम्' इत्यमरः। अतिष्टं स्थितवती । लङ् । गणराने प्रचुरनिशासु । 'गणरात्रं निशा बढ्यः' इत्यमरः ।
१. 'धीरोद्धतः'. २. 'उपगतेन'. ३. 'जटाजूट-'. ४. 'भविष्यति । ततः'.
For Private and Personal Use Only