________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः]
अनर्घराघवम् ।
१८५
पञ्चमोऽङ्कः।
(ततः प्रविशतः श्रवणाजाम्बवन्तौ ।) जाम्बवान्-ततस्ततः ।
श्रवणा-ततो मिथिलाया निष्क्रम्य मन्थराकलेवरमवकीर्य मारुतिप्रत्यवेक्षितं स्वशरीरमधिष्ठाय गङ्गायां शृङ्गवेरपुरं नाम निषादपक्कणमागत्य शबरीभूतास्मि ।
जाम्बवान-ततस्ततः ।
श्रवणा-ततश्च ममानुपदमेव तस्मिन्निमौ रामलक्ष्मणावियं सीतेति सर्वतः शब्दो महानभूत् ।
जाम्बवान-(सहर्षम् ।) ततस्ततः ।
श्रवणा-ततश्च कावेतौ रामलक्ष्मणाविति कर्णधाराधिपतिना गुहेनाहमनुयुक्ता निवेदितवत्यस्मि ।
पुत्रीयता दशरथेन मुनिप्रसादा
त्प्राप्ताः पुराणपुरुषस्य कलाश्चतस्रः । इदानी रामचन्द्रस्य दशरथस्वर्गगमनश्रवणं पञ्चवटीगमनं शूर्पणखानासाछेदनं खरदूषणादिवधो रावणकर्तृकसीतापहरणं सुग्रीवमैत्रं वालिवधादिकं च पञ्चमाङ्कप्रतिपन्नमर्थ सूचयितुं श्रवणाजाम्बवतोः प्रवेशमाह-ततः प्रविशत इति। चतुर्थाके शूर्पणखामाल्यवद्विष्कम्भके 'मन्थराकायप्रवेशेन मिथिलामुपेत्य प्रत्ययिता संविधानकमिदं दशर थगोचरीकुरुप्चेति जाम्बवता श्रवणा प्रार्थिता । सापि शबरयोगिनी श्रवणा सर्व तथेत्युरसि कृत्वैव विदेहाभिमुखी प्रस्थिता' इत्युक्तम् । इदानीं विदेहात्समागतायाः श्रवणायाः सकाशात्तद्वत्तान्तं शुश्रूषुर्जाम्बवानाह—ततस्तत इति । तत्र श्रवणा खव्यापारं कथयतीति पूर्वापरसंबन्धः । कलेवरं मृतकायम् । अवकीर्य क्षिप्वा । 'अवतीर्य' इति पाठे त्यक्त्वेत्यर्थः । धातोरनेकार्थत्वात् । मारुतिर्हनूमान् । गङ्गायामिति सामीप्ये सप्तमी । लक्षणया वा तीरोपस्थितिः । निषादो धीवरचण्डालो वा । 'निषादः स्वरभेदे स्याच्चण्डाले धीवरेऽपि च' इति मेदिनीकरः। पक्कणस्तद्रामः । 'पक्वणः शबरालयः' इत्यमरः । ममानुपदं मम पश्चात् । तस्मिञ्शबरालये। कर्णधारो नाविकः । गुहेन गुहनाना निषादेन । अनुयुक्ता पृष्टा। निवेदनस्वरूपमाह-पुत्रीयतेति। पुत्रीयता आत्मनः पुत्रमिच्छता दशरथेन मुनिप्रसादादृष्यशृङ्गप्रसादात्पुराणपुरुषस्य विष्णोश्चतस्रः
१. 'श्रमणा- '. २. 'गङ्गातीरे'. ३. 'आगत्य भूतास्मि'. ४. 'अस्मि'. इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only