________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रामः-तातौ, समाश्वसितं समाश्वसितम् ।
जनकः—(आश्वस्य । आकाशे लक्ष्यं वद्धा ।) साधु सखि कैकेयि, साधु । यदस्या विश्वंभरादुहितुर्मे वत्सायाः पत्युरनुवृत्तिरेव प्रसादीकृता । (विमृश्य । सव्यथम् ।)
धनुष्मन्तौ वत्सौ दशरथभुजैरूप्मलेतमाः
प्रदेशास्ते वत्सा शिशुरशिववृत्ता वनभुवः । प्रिय राजा मुक्तैरसुभिरपमाटि खमयश
श्चरित्रव्यत्यासः सखि कथमयं केकयकुले ॥ ६९ ।। कष्टं च । वयमपि कथमनेन जनपदेषु बहुलीभवता भरतयौवराज्यलक्ष्मीकर्णपूरतमालपल्लवेन कैकेयीदुर्यशसा मूर्धानमुन्नमय्य लोकस्य मुखं द्रक्ष्यामः ।
रामः-(उत्थाय ।) तात जनक, यथा सुस्थं तातं शृणोमि तथा भैंवता विधातव्यम् । (इति निष्क्रान्तः ।)
दशरथ:-(आश्वस्योत्थाय च ।) वत्स रामभद्र, परिपालय माम् । (इति जनकेन धार्यमाणो निष्क्रान्तः ।)
(इति निष्क्रान्ताः सर्वे ।) इति दशरथविप्रलम्भो नाम चतुर्थोऽङ्कः ।
विषये साध्वी । ऊष्मलतमा अत्यन्ततेजोयुक्ताः सिध्मादित्वाच् । अशिववृत्ता अकल्याणयुक्ताः । सर्पव्याघ्रादियोगात् । मुक्तैस्त्यक्तैः । अपमाटि खण्डयति । व्यत्यासो विपर्ययः । जनपदेषु लोकेषु ! 'देशे जने जनपदः' इति । दुर्यशसः श्यामत्वात्तमाल. पत्रेण रूपणम् । उन्नमय्योत्तोल्य । सुस्थं निराकुलम् । 'स्वस्थम्' इति पाठे स्वस्मिन्ना. त्मनि तिष्ठति स्वस्थः । आत्मज्ञ इत्यर्थः । यद्वा प्रकृतिस्थम् । स्वस्थं स्वर्गस्थमित्यपि सूचितम् । 'खपरे शरि वा लोपो वक्तव्यः' इति विसर्गलोपः । गण्डोक्तिरियम् । 'अनारम्भेण भाव्यार्थवादो गण्ड इति स्मृतः' इति भरतः । परिपालय प्रतीक्षस्व ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवप्रोत्साहितवैजौलीग्रामवास्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्यायविरचिताया
मनर्घराघवटीकायां चतुर्थोऽङ्कः । १. 'समाश्वसीतां समाश्वसीताम्.' २. 'उल्बणतमाः.' ३. 'बहुलीभविष्यता.' ४. भवतैव'. ५. 'तथा विधातव्यम्'.
For Private and Personal Use Only