________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः
अनर्घराघवम् ।
१८३
जनक:-(लक्ष्मणहस्तात्पत्रिकां गृहीत्वा वाचयति ।) खस्ति । महाराजं दशरथं कैकेयी विज्ञापयति । यथा
तन्मे वरद्वयमुरीकृतपूर्वमेव __ याचे बिभर्तु भरतस्तव राज्यलक्ष्मीम् । वर्षाणि तिष्ठतु चतुर्दश दण्डकायां सौमित्रिमैथिलसुतासहितश्च रामः ॥ ६६ ॥
(इति राजानौ मूर्छतः ।) रामः-यदादिशत्यम्बा । (इति शिरसि पत्रिका दैत्त्वा ।) वत्स लक्ष्मण, निजामस्मदाराधनसहाध्यायिनी प्रजावतीमादाय पुरो भव ।
लक्ष्मणः-तथा । (इति निष्क्रान्तः ।) रामः-तातौ, समाश्वसितं समाश्वसितम् । जनकः-(आश्वस्य ।) अहह ।
पाणिगृहीतो रघुपुंगवेन देवः पुराणः श्वशुरो विवस्वान् ।
पिता स्वयं केकयचक्रवर्ती कर्मेदमेतादृशमाः किमेतत् ॥ ६७ ॥ (इति मूर्च्छति ।)
(रामः पटाँञ्चलेन वीजयति ।) दशरथ:-(आश्वस्य ।) कोऽप्येष वाङ्मनसयोरतिवृत्तवृत्ति
वो हुताशनमयश्च तमोमयश्च । भोक्तत्वमात्रमिह में पुनरीदृशं मां
हा वत्स राम कथमुत्सहसे विहातुम् ॥ ६८ ॥ (विमृश्य ।) हा वत्से जानकि, निशाचराणामातिथेयीभवितुं दशरथगृहे प्रविष्टासि । (इति मूर्च्छति ।) ऊरीकृतपूर्व पूर्वाङ्गीकृतमेव । वरद्वयमहं याचे । तदेवाह-विभत्विति । दण्डकारण्यभेदः। 'प्रजावती भ्रातृजाया' इत्यमरः । पुंगवः श्रेष्ठः । पुराणोऽतिचिरंतनः । आः क्रोधे । वामनसोऽजन्तोऽचतुरादौ निपातितः । अतिवृत्तवृत्तिरविषयः । इह हुताशनमयतमोमयभावे भोक्तृत्वमात्रं मे । अनुभविता परमहं न प्रतीकारक्षम इत्यर्थः । आतिथेयी अतिथि
१. 'देवी कैकेयी'. २. 'गृहीत्वा'. ३. 'पुरस्ताद्भवेति'. ४. 'यदाज्ञापयत्यार्यः'. ५. 'समाश्वसीतां समाश्वसीताम्'. ६. 'देवश्च साक्षात्'. ७. 'रामस्तथैव पटान्तेन'. ८. 'अनिवृत्तकमी'; 'अतिवृत्तवमों'. ९. 'गृहमनुप्रविष्टासि'.
For Private and Personal Use Only