________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
काव्यमाला। विनेता वर्णानां भृगुपतिभुजादर्पनिकषो
. महावीरः श्रीमानयममृतमक्ष्णोर्विकिरति ॥ ६५ ॥ दशरथ:---(निर्वर्ण्य । सस्नेहम् ।) सखे सीरध्वज, रघुराजधर्माधिकारसर्वधुरीणः शिशुरपि वत्सोऽयम् । तदस्मिञ्जरसा दुर्वहं वर्णाश्रमभारमारोप्य वयमपि कापि तपोवने दिलीपकुलोचितेन विधिना शेषमायुसैपबुभुक्षामहे ।
जनकः-सखे दशरथ, साधु ते हृदयमीदृशम् । क्रमादेतर्दैनुष्ठातव्यम् । रामः-(उपसृत्य ।) तातौ, अभिवादये । जनकः-एह्येहि वत्स रामभद्र । (इति सहर्षमालिङ्गति।)
दशरथ:-(राममालिङ्गय ।) सखे जनक, रामभद्रमभिषेक्तुं जामदग्यविजयप्रीतिरेव श्रेयानवसरः । कालक्षेपे पुनः को हेतुः ।
(प्रविश्य ।) लक्ष्मणः-इयमार्यया मन्थरयोपनीता मध्यमाम्बायाः पत्री।
(राजानौ सवितर्कमन्योन्यं पश्यतः ।) रामः-(सहपम् ।) वत्स लक्ष्मण, अपि सपरिवाराया कुशलमम्बायाः कथयत्यार्या मन्थरा ।
लक्ष्मणः-आर्य, अथ किम् ।
रामः-नूनमस्मत्प्रवासदौमनस्यमम्बां पीडयिप्यति । क्षात्रं तेजस्त्रिजगतामवत्रं जेतृ जनयिता उत्पादयिता । तृनि रूपम् । तेन 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इति न पष्ठी । कुलभृतां कुलधारकाणां बीजिनां चन्द्रादीनां सर्वेषामुपरि सवितारं सूर्य विधाता कर्ता । रामेण सवितृकुलं सर्वकुलेभ्यः प्रशस्यमित्यर्थः । वर्णानां ब्राह्मणादीनां विनेता विनयकर्ता । निकषः 'कसौटी' इति प्रसिद्धः । 'निकषः कषपट्टिका' इत्यमरः । धर्माधिकारो धर्मजिज्ञासाभियोगः । तत्र सर्वधुरीण: सर्वभारवाही । 'खः सर्वधुरात्' इति खः । वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचार्यादयः। उपबुभुक्षामह उपभोक्तुमिच्छामः । भुजेः सन्नन्तात् 'पूर्ववत्सनः' इति तटु । कालक्षेपे पुनः इति छलोक्तिः । 'वाक्यं वाक्यान्तरासक्तमर्थान्तरस्य सूचकम् । यत्र सा स्याच्छलोक्तिस्तु नाट्यालंकारसंमता ॥' इति भरतः । यथोत्तरचरिते-'किमस्या न प्रेयो यदि परमसह्यम्तु विरहः' इति । मन्थरानाम्नी प्रतीहारी । दौर्मनस्यं विमनस्कत्वं कर्तृ ।
१. 'अमृतमयम्'. २. 'वयमपि इति पुस्तकान्तरे नास्ति. ३. 'उपभोक्ष्यामहे'.४. एवमनुष्टातव्यम्'. ५. 'तातो' इति पुस्तकान्तरे नास्ति. ६. 'आर्थ' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only