________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः]
अनर्घराघवम् । त्रिलोकीनिर्माणस्थितिनिधनबन्धोर्मधुभिदो।
भवान्पष्ठी मूर्तिभृगुकुलमधिष्ठाय रमते ।। ६३ ॥ जामदग्यः-वत्स रामभद्र । राम:-आज्ञापय ।
जामदग्न्यः-निवर्तस्व । नूनमिदानीं कृतकौतुकागारमङ्गलोपचारः श्वशुरकुललोकस्त्वां प्रतीक्षते (इति परिष्वज्य निष्क्रान्तः ।)
राम:---(सोद्वेगम् ।) कथं गतो भगवान् । तदहमपि तातसमीपमेव गच्छामि । (इति परिक्रामन्पुरोऽवलोक्य ।) कथं तातश्च जनकश्चेत एवाभिवतेते । (इत्युपसर्पति ।)
(ततः प्रविशतो जनकदशरथौ। राजानावन्योन्यं परिष्वज्य ।) जनक:सुचरितमिदमैतिहासिकानां हृदि न विरंस्यति यत्तवैष पुत्रः । भृगुसुतपरशूदराद्विराजां सहजविजित्वरमाचकर्ष तेजः ॥ ६४ ।। दशरथः—(पुरोऽवलोक्य सहर्षम् ।) कथमागत एव वत्सो रामभद्रः । जनकः-सखे महाराज दशरथ, पश्य पश्य ।
चिरात्मानं तेजस्त्रिजगदेवजैत्रं जनयिता
विधाता सर्वेषामुपरि सवितारं कुलभृताम् । पालनम् । निधनं विनाशः । मधुभिदो विष्णोः षष्ठी मूर्तिः परशुरामस्वरूपा । तथा हि दशावतारे--'मत्स्यः कूर्मी वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च रामश्च बुद्धः कल्की च ते दश ॥' अत्र रामः परशुरामः। रामो रामभद्रः । रामो बलभद्र इति । कौतुकं विवाहः, उत्सवः हर्षो वा । तदर्थमगारो गृहं तत्र मङ्गलस्य चित्रादेरुपचारः परिपाटी । 'कौतुकं तु विवाहे स्यादुत्सवे नमहर्षयोः' इति मेदिनीकरः । इतिहासः पुरावृत्तं तद्विदन्ति ऐतिहासिकाः । 'आख्यानाख्यविकेतिहासपुराणेभ्यष्ठरवक्तव्यः' । ऐतिहासिकानां हृदि इदं सुचरितं न विरंस्यति न लुप्तं भविष्यति । यत्तवैष पुत्रो भार्गवकुठारमध्याद्विराजां क्षत्रियाणां स्वभावजयशीलं तेजः कर्म आचकर्ष कृष्टवान् । विजित्वरमिति 'इण्नशजिसर्तिभ्यः करप्' । 'बाहुजः क्षत्रियो विराट्' इत्यमरः। चिरादिति । अयं रामोऽक्ष्णोरधिकरणयोरमृतं विकिरति विक्षिपति । अत्यन्तानन्ददानात् कीदृशः ।
१. 'मूर्तिः षष्टी'. २. 'कुल' इति पुस्तकान्तरे नास्ति. ३. 'पुरतोऽवलोक्य च'. ४. 'न हृदि'. ५. 'उपजीव्यम्'. ६. 'कुलकृताम्'.
For Private and Personal Use Only