________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
.
काव्यमाला ।
एहि विष्टरपौदार्थमधुपर्कैरुपस्थितान् ।
इक्ष्वाकुंश्च विदेहांश्च पुनीहि भगवन्नमून् ॥ ६० ॥ जामदग्यः-वत्स, अपरिहार्यमेवं ह्यातिथ्यं राजन्यश्रोत्रियाणाम् । किं पुनरेवंविधवैखानसोचिताचारस्खलितविलक्षो न शक्नोमि धर्माचार्य याज्ञवल्क्यमुपेत्यावलोकितुम् । आचारस्तु दूरादपि कृतः कृतः स्यात् । (किंचिदुच्चैनैपथ्याभिमुखम् ।)
यस्य स्मृतीः प्रतीक्षन्ते चतुर्वर्गे मनीषिणः । नमो भगवते तस्मै याज्ञवल्क्याय योगिने ॥ ६१ ॥
(नेपथ्ये ।) गायत्री द्रुपदा देवी पाप्मानमपहन्तु ते ।
पुनन्तु पावमान्यस्त्वामृध्नोतु ब्रह्म ते परम् ॥ ६२ ॥ जामदग्यः-भगवन्, अपत्रपमाणो न भवन्तं द्रष्टुमुत्सहे । तदनुमन्यस्व मामरण्याय ।
(नेपथ्ये।) शिवास्ते पन्थानो व्रज निजगृहेभ्यो निजगृहा
_न्किमन्यत्सर्वेषां गुणमय शिरोमाल्यमसि नः । स्वपतेढञ्' विष्टरमासनम् । 'वृक्षासनयोविष्टरः' इति निपातनम् । आतिथ्यमतिथिसत्कारः । ब्राह्मणादित्वात्ष्यञ् । वैखानसो नाम मुनिस्तेन प्रोक्तमधीयते वैखानसास्तृतीयाश्रमस्था मुनयः । वैखानसो वानप्रस्थो गृह इति पर्यायाः । स्खलितं स्खलनम् । दूरादेवास्माभिरर्धादि प्रतिगृह्यत इति भावः । स्मृतीः स्मृतिवाक्यानि । चतुर्वर्गे धर्मार्थकाममोक्षे । 'त्रिवर्गो धर्मकामाथैश्चतुर्वर्ग: समोक्षकैः' इत्यमरः । प्रतीक्षन्ते चिन्तयन्ति प्रमाणयन्तीति यावत् । योगिने योगियाज्ञवल्क्यायेत्यर्थः । गायत्री सावित्रीमन्त्रः। यद्वा गायत्रीमन्त्रे ध्येया देवता। द्रुपदा 'द्रुपदादिव मुमुचानः' इत्यादि मन्त्रः । पाप्मानं पापम् । पावमान्यो ऋग्विशेषाः । परं ब्रह्म तत्त्वज्ञानम् । ऋनोतु उपचितिं यात्वित्यर्थः । अपत्रपमाणोऽन्यतो लज्जमानः। 'लजा सापत्रपान्यतः' इत्यमरः । अरण्याय गन्तुमित्यर्थः । 'क्रियार्थोपपद-' इत्यादिना चतुर्थी । शिवाः कल्याणदाः पन्थानः । सन्त्विति शेषः । हे गुणमय । 'तत्प्रकृतवचने मयट्' । नोऽस्माकं सर्वेषां शिरोमाल्यं शिरसि पुष्पं माला वा । 'पुष्पपुष्पस्रजोमाल्यम्' इत्यमरः । निर्माणं सृष्टिः । स्थितिः
१. 'पाद्यार्घ'; 'पाद्यार्थ्य'. २. 'एव हि' इति पुस्तकान्तरे नास्ति. ३. 'अवलोकयितुम्'. ४. 'कृतकृत्यः'. ५. 'अभिमुखः'. ६. 'अपेक्षन्ते'. ७. 'त्रिपदा'. ८. 'अरण्यगमनाय'. ९. "शिरोरत्नम्'.
For Private and Personal Use Only