________________
Shri Mahavir Jain Aradhana Kendra
१७६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
जामदग्यः – (संरोषम् । किमात्थ रे, किमात्थ । ('द्रक्ष्यामि त्वयि वर्तमानमधुना' इत्यादि श्लोकोत्तरार्ध पठित्वा सव्यथम् ।) अहो सर्वतः समिध्यमानदारुणस्य रोषजातवेदसो विदेहदिलीपयोः कुलं नाम कति भविप्यन्त्याहुतयः । (उच्चैः । भो भोः सप्तद्वीपकुलपर्वतवर्तिनो राजानः, चेतयध्वं चेतयध्वम् । येन खां विनिहत्य मातरमपि क्षत्रात्रमध्वासवस्वादाभिज्ञपरश्वधेन विदधे निक्षत्रिया मेदिनी । यद्वाणत्रणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छलादद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥ ५२ ॥ रामः -- (सहर्षसंभ्रमम् ।)
नृपानप्रत्यक्षान्किमपवदसे नन्वयमहं शिशुक्रीडाभग्नत्रिपुरहरधन्वा तव पुरः । अहंकार क्रूरार्जुनभुजवनत्रश्चनकला
निस्सृष्टार्थो बाहुः कथय कतरस्ते प्रहरतु ॥ ५३ ॥ जामदग्यः -- (सैको पाटोपम् ।) आः पाप विकर्तनकुलकलङ्क, पुनस्तरां तदेव पार्वतीदयितकोदण्डदलन साहसमुद्भावयसि । अहह क्षत्रियोऽपि भावस्य कार्तवीर्यजयिनं भुजदण्डमन्विप्यति । अहो गरीयान्कालः । यदश्रुतचरमपि श्रावयति । अदृष्टचरमपि दर्शयति । अपि च रे राजन्यकीट, 1
विंशतेर्डिति' इति टिलोपः । समिध्यमानस्य स्वयं दीप्यमानस्य । 'ञिइन्धी दीप्तौ' । जातवेदसोऽग्नेः कुलपर्वता गन्धमादनादयः । राजानो दिक्पालाः । चेतयध्वं चेतना भवत । विधौ लोट् । येनेति । खां मातरं क्षत्रियामेव । क्षत्रासमेव क्षत्रियरुधिरमेव मधु क्षौद्रं आसवो मद्यम् । 'मध्वासवो माधवको मधु माध्वीकमद्वयोः' इत्यमरः । 'रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्' इति च । 'परशुश्च परश्वधः' इत्यमरः । व्रणं रन्ध्ररूपम् । हंसा हि कैलासस्थमानससरसः शरदि क्रौञ्च गिरिविवरेण भुवमायान्तीति वार्ता | नृपानिति | अपवदसे निन्दसि । 'अपाद्वदः' इति तङ् । अयमहमित्य [त्य]न्ताहंकारे । त्रिपुरहरो महेशः । अर्जुन: कार्तवीर्यः । ब्रश्चनं छेदनम् । निसृष्टार्थो ज्ञातार्थः । विकर्तन: सूर्यः। अश्रुतचरं न पूर्वश्रुतम् । 'भूतपूर्वे चरद्' । कीट इव कीटः पोतः । जानास्येवे
१. ‘ससंरम्भम्’. २. ‘उच्चैः' इति पुस्तकान्तरे नास्ति. ३. 'सहासम्'. ४. 'साटो - पम्'. ५. 'साहसम्' इति पुस्तकान्तरे नास्ति. ६. 'कार्तवीर्यभुजविजयिनं - अन्वेषयति'.
For Private and Personal Use Only