________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः] अनर्घराघवम् ।
१७५ जामदग्यः-(सक्रोधम् ।) आः पाप दुर्मुख, वसिष्ठ इव विश्वामित्र इव स्वस्तिवाचनिको ब्राह्मणस्ते परशुरामः । (सव्यथम् ।) धिक्कष्टम् । एवमु. च्चावचवाचः क्षत्रियाः श्रूयन्ते । (क्रोधातिशय नाटयन् ।) अयमहं भोः,
सहदशरथमद्योत्कृत्य पुत्रैश्चतुर्भि
र्जनककुलकबन्धस्कन्धनिर्गत्वरीभिः । नवरुधिरलताभिः क्लुप्तलीलापताकां
__ रणभुवमतिरौद्रीं रुद्रशिष्यः करोमि ॥ ५० ॥ रामः-(सरोषम् ।) आः जामदग्न्य, केयं वाग्विभीषिका । दूरमतिक्रामति प्रसङ्गे कदाचिदिक्ष्वाकवोऽपि दुर्मनायन्ते ।
जामदग्यः-(सभ्रुकुटीभङ्गम् ।) ततः किम् । रामः-(सावष्टम्भम् ।) ततश्च । तैस्त्रिःसप्तभिरेव राजविजयैर्यत्ते भुजस्तम्भयोः
कृत्वा तोरणमालिकां पुनरमुं द्वाविंशमारिप्सते । द्रक्ष्यामि त्वयि वर्तमानमधुना तच्चापविद्याद्भुतं
शंभोस्तस्य हि केवलेन धनुषा कृष्टेन तुष्टिर्न मे ।। ५१ ॥ साहसिकः । 'ओजःसहोऽम्भसा वर्तते' इति ठक । तस्य भावः साहसिक्यं साहसम् । अस्यैव विशेषणं गुरुण इति । 'भीत्रार्थानां भयहेतुः' इत्यपादानता। स्वस्तिवचनमाह स्वस्तिवाचनिकः । 'तदाहेति माशब्दादिभ्यः' इति ठक्। 'उत्तरपदस्य च' इति वृद्धिः । यद्वा खस्तिवाचन प्रयोजनमस्य । 'तदस्य प्रयोजनम्' इति ठक् । 'उच्चावचं नैकभेदम्' इत्यमरः । सहदशरथेति । चतुर्भिः पुत्रैः सह । सहयुक्त तृतीया । उत्कृत्योन्मूल्य । स्कन्धः समूहः । निर्गत्वरी निर्गमनशीला । 'गत्वरश्च' इति साधुत्वम् । नवरुधिरेति । नवपदं स्त्यानरक्तानिषेधार्थम् । अन्यापि पताका लतया क्रियत इति ध्वनिः । अतिरौद्रीमतिभयानकाम् । वाचा त्रासयितुमिच्छा वाग्विभीषिका । बिभतेरन्तर्भावितण्यर्थात्सन्। अतिकामति वर्तमाने । प्रसङ्गे कोपे । दुर्मनायन्ते। अच्व्यर्थं भृशादित्वात्क्यङ् सलोपश्च । तैरिति । यच्चापविद्याद्भुतं कर्तृ, तैस्त्रिभिः सप्तभिरेकविंशतिसंख्याकै राजविजयैः, भुजावेव स्तम्भौ तयोस्तोरणमालां कृत्वा पुनरप्यस्मजयादमुं द्वाविंशं द्वाविंशतेः पूरणं राजविजयमारिप्सते आरव्धुमिच्छति । तदधुना त्वयि वर्तमानं द्रक्ष्यामि । यतः केवलेन हरचापाकर्षणेन मम न तुष्टिः । द्वाविंशमिति द्वाविंशतेः पूरणम् । 'तस्य पूरणे डट् । ति
१. 'लुप्त-'. २. 'सक्रोधम्'. ३. 'विभीषा'. ४. 'सभ्रुकुटिबन्धम्'.
For Private and Personal Use Only