________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
काव्यमाला ।
(नेपथ्ये।) भार्गव भार्गव, दुर्विज्ञानमिदमक्फिलनिष्पत्तेराभिरामिकं साभामिकं वा ।
रामः--(सरोषं नेपथ्याभिमुखम् ।) आः वत्स, कोऽयमद्यतनस्ते दुर्विनयप्ररोहो यद्गुरूनपि क्षेत्रीकरोषि ।
(नेपथ्ये।) आर्य, तूष्णीमयमस्मि । क्षमख जामदग्य, नियन्त्रितोऽहमार्येण ।
जामदग्यः --(विहस्य ।) अरे राम, कथमद्यापिं वाचमेव सूनृतामस्मदभियोगप्रशमनी प्रथयसे । कवचहरोऽसि । शस्त्रैरेव प्रतिक्रियन्तां शस्त्राणि । किं च रे,
राजन्येभ्यो जन्म वैवखतेभ्यश्चक्रे चापाचार्यकं कौशिकश्च । क्षात्रीं चर्यामेवमुन्मुञ्चतस्ते गोत्राक्षेपी वज्रलेपः कलङ्कः ॥ ४८ ॥ रामः-(सगर्वस्मितम् ।) भगवन् , सत्यमेतत् । जातः सोऽहं दिनकरकुले क्षत्रियश्रोत्रियेभ्यो
विश्वामित्रादपि भगवतो इष्टदिव्यास्त्रपारः । अस्मिन्वंशे कथयतु जनो दुर्यशो वा यशो वा
विप्रे शस्त्रग्रहणगुरुणः साहसिक्याद्विभेमि ।। ४९ ॥ त्यत्र, पुरस्तात् 'मृगखुरक्षुरप्रव्यालेखस्थपुटितविभागा वनभुवः' इत्यत्र च प्रयुक्तत्वात् । दन्तावलमिति ‘दन्तशिखात्संज्ञायाम्' इति वलच । 'वले च' इति दीर्घः । अर्वाक् पूर्वम् । साङ्ग्रामिकमाभिरामिकवत्साधु । क्षेत्रमाश्रयः । क्षमस्व सहस्ख । 'क्षमु प्रसहने' भूवादावपि पठ्यते । स चात्मनेपदी। सूनृतां प्रियसत्याम् । 'सत्यं प्रियं च वचनं सूनृतं समुदाहृतम्' इति । अभियोगो युद्धम् । कवचहरः संनद्धः । राजन्येभ्य इति । वैवस्वतेभ्यो विवस्वदपत्येभ्यो राजन्येभ्यः क्षत्रियेभ्यस्ते तव जन्म । अभूदिति शेषः । कौशिकश्च तव चापाचार्यकं धनुरध्यापकत्वं चक्रे कृतवान् । क्षात्रीं क्षत्रसंबन्धिनी चों परिपाटीमुन्मुञ्चतस्त्यजतस्तव गोत्रमाक्षिपतीति गोत्राक्षेपी कलङ्कोऽपवादः । जात इति शेषः । तथा च क्षत्रियेभ्यो जन्म, विश्वामित्रादध्ययनं च ।क्षात्रचर्यापालनकारणम्, तत्सर्वं त्यजतस्तव कलङ्क एव भविष्यतीत्यतः सर्वथा मया सह युद्धादि योग्यमिति भावः। आचार्यकमिति 'योपधाद्गुरूपोत्तमादुञ्' इति भावे वुञ् । जात इत्यादि । श्रोत्रियश्छन्दोध्येता उत्तमो वा । दृष्टं ज्ञातम् । अस्मिन्वंशे सूर्यवंशे। सहो वलं तेन सह वर्तते
१. 'विनयातिप्ररोहो यद्भगूनपि'. २. 'तूष्णीमस्मि'. ३. 'रेरे'. ४. 'कथं वाचमेव.' ५. 'समर्थयसे'. ६. 'कुलक्षत्रिय-'. ७. 'लव्धविद्यास्त्र-'. ८. 'अस्मिन्नंशे कलयतु'.
For Private and Personal Use Only