________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः] अनर्घराघवम् ।
१७३ जामदग्न्यः-(सावज्ञं रामं प्रति ।) अये, किमयं लक्ष्मणो भवन्तं पुरोजन्मानमपदिशति ।
रामः-(सविलक्षस्मितम् ।) प्रसीद भगवन्, स एवायं यौवनादर्वाचि निरपराधमधुरे वयसि वर्तमानो यानिकानिचिदक्षराणि प्रलपति ।
जामदम्यः-(सस्मितम् ।) कथमेतावत्यपि माममृष्यमाणमाशङ्कसे । यतस्त्वदनुवर्ती खल्वयं त्वामेवास्तमयमानमन्वस्तमयिष्यते । निर्वाणं हि सवितारं तरणिमणिरप्यनुनिर्वाति । (नेपथ्यं प्रति ।) साधु रे लक्ष्मण, साधु । कनिष्ठतरोऽपि वरं भवान्, न पुनरयं वृथाज्येष्ठो रामस्ते । प्रागुच्चैःर्शिरसं क्षुरप्रनखरैः क्रौञ्चाद्रिदन्तावलं
भित्त्वा हंसमयानि मौक्तिकफलान्याकीर्य पर्यापिताम् । सैंहीं वृत्तिमधिष्ठितेऽपि हि मयि क्षात्रेण कल्पेन ते
दिष्टया कौतुकमाभिरामिकमसि त्वं कोऽपि वीराङ्कुरः ॥ ४७ ॥ भावः । अधीरमपण्डितमधैर्यशालिनं वा कलयतु कथयतु जानातु वायं जनः। अयं परिकरः प्रारम्भः । संनाहो बद्धः कृतः । 'मामघमयम्' इति पाठे अघमयं पापमयं द्विजवधात्। अपदिशति दूरीकरोति । यौवनादर्वाचि यौवनात्पूर्वस्मिन् । कौमार इत्यर्थः । प्रलपत्यनर्थकं वदति । 'प्रलापोऽनर्थकं वचः' इत्यमरः । एतावति विषये। अमृष्यमाणमक्षाम्यन्तम्। अस्तं नाशमयमानं गच्छन्तम् । 'अय गतौ'। शानच् । अनु पश्चात् । तरणिमणिः सूर्यकान्तः । वरं भवानिति वरमव्ययम् । 'मनागिष्टे वरं यत्तु कश्चिदाह तदव्ययम्' इति शाश्वतः । यथा 'याच्या मोघा वरमधिगुणे' इति, 'वरं विरोधोऽपि समं महात्मभिः' इति च । प्रागिति । प्राक् पूर्व क्षुरप्रस्वरूपैर्नखरै खैः क्रौञ्चादिरेव क्रौञ्चनामकप- 1 र्वत एव दन्तावलो हस्ती तं भित्त्वा विदार्य हंसमयानि हंसरूपाणि मौक्तिकान्याकीर्य वि. क्षिप्य पर्यापितां व्यवस्थापितां सैंहीं सिंहस्येयं सैंही तां वृत्तिं व्यापारमधिष्ठितेऽप्यास्थितेऽपि मयि विषये ते तव क्षात्रेण कल्पेन विधिना कौतुकं कौतुकहेतुत्वादस्ति । कीदृशम् । आभिरामिकम् । अभिरमणमभिरामः प्रीतिः । तस्मै प्रभवत्याभिरामिकम् । 'तस्मै प्रभवति संतापादिभ्यः' इति ठक् । तस्मात्त्वं कोऽप्यनिर्वचनीयो वीराङ्कुरोऽसि । उच्चैःशिरसमिति । उच्चैः शिरो मस्तकं शिखरं वा यस्य तम् । परशुरामेण क्रौञ्चं भित्त्वा राजहंसा आनीता इति पुराणम् । क्षुरप्रखुरप्रशब्दावस्त्रभेदवाचकावपि भवतः। क्षुर विखण्डने', 'खुर च्छेदने' इति धात्वोर्वर्णदेशनायां साधितत्वात् । 'दशाननक्षिप्तखुरप्रखण्डितः' इ
१. 'सवैलक्ष्य-'. २. 'अर्वाच्यपराध-'. ३. 'एतावतापि'. ४. 'त्वदनुवर्ती खल्वल्पं' ५. 'वरो'. ६. 'शिखरं'.
For Private and Personal Use Only