________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः] अनर्घराघवम् ।
१७७ जानास्येव यथा पितुः परिभवन्होमार्जुनीमर्जुनो
मत्कोदण्डमनेकराजकवधस्वाध्यायमध्यापिपत् । तेनैवास्ति भवत्सु यद्यपि मम क्रोधोऽयमौत्सर्गिक
स्तत्संप्रत्युपसर्जनं गुरुधनुर्भङ्गादयं हेतुमान् ॥ ५४ ॥ रामः-ऋपे जामदग्न्य, पटच्चरीभूता खल्वियं पुरातनी कीर्तिपताका। नन्विदानीमेव द्रष्टव्यम् । (नेपथ्याभिमुखम् ।) वत्स लक्ष्मण, धनुर्धनुः । जामदग्य:--(साक्षेपम् ।) अरे अनात्मज्ञ क्षत्रियबटो,
तच्चापमीशभुजपीडनपीतसारं
प्रागप्यभज्यत भवांस्तु निमित्तमात्रम् । राजन्यकप्रधनसाधनमस्मदीय
माकर्ष कार्मुकमिदं गरुडध्वजस्य ।। ५५ ।। आकृष्टेन पुनरमुनैव धनुषा किलास्माभियोत्स्यसे । क्षत्रसत्रे दीक्षितानां तु चिरस्य होण्यं परशुरस्माकमस्त्येव । (इति रामस्य हस्ते धनुरर्पयति।)
ति । मम पितुर्जमदग्ने)मसाधनिकामर्जुनी गां परिभवनपहरन्सनर्जुनः कार्तवीर्यो यथा मम कोदण्डं धनुरने कक्षत्रियवधस्वरूपं खाध्यायं वेदं पाठमात्रं वाध्यापिपदध्यापितवान्, तथा त्वं जानास्येव । तेनैव हेतुना भवत्सु क्षत्रियवंशोद्भूतेषु ममौत्सर्गिकः स्वाभाविकः क्षत्रियसामान्य विषयकः क्रोधो यद्यप्यस्ति तत्संप्रत्युपसर्जनमप्रधानम् । यतो गुरुधनुर्भझादयं क्रोधः क्षत्रियवधे हेतुमान्प्रयोजकवान् । 'तत्प्रयोजको हेतुश्च' इति । 'भङ्गादहं हेतुमान्' इति पाठेऽहमेव प्रयोजकवानित्यर्थः । 'भङ्गे तु' इति पाठे भङ्गे सतीत्यर्थः । अध्यापिपदिति अधिपूर्वकादिङः 'क्रीजीनां णो' इत्यात्वे कृते रूपम् । न च 'अभिज्ञावचने लट्' इति लट् स्यादिति वाच्यम् । 'विभाषा साकाङ्के' इति विकल्पनात् । 'अर्जुनी सौरभेयी गौः' इत्यमरः । 'अर्जुनः ककुभे पार्थे भवेदप्यर्जुनी गवि' इति मेदिनीकरः । पटच्चरीभूता जीर्णवस्त्रीभूता। 'पटच्चरं जीर्णवस्त्रम्' इत्यमरः । अनात्मज्ञोऽतत्त्वज्ञः । चापं कर्तृ । पीतसारं गृहीतबलम् । प्रागप्यभज्यत पूर्वमेव भग्नम् । अपिरेवार्थे । 'भजो आमर्दने'। कर्मकर्तरि तङ् । राजन्यकं क्षत्रियसमूहः । प्रधनं मारणम् । साधनं हेतुः । कार्मुकं धनुः । अभियोत्स्यसे योधयिष्यसि । क्षत्रसत्रे क्षत्रियहोमयज्ञे । 'सत्रमाच्छादने यज्ञे' इति विश्वः। दीक्षितानां गृहीतव्रतानाम् । उद्घातः पादस्खलनं तद्युत्ता उद्घातिनी।
१. 'अध्यापयत्'. २. 'ऋषे' इति पुस्तकान्तरे नास्ति. ३. 'साक्षेपम्' इति पुस्तकान्तरे नास्ति. ४. 'रे रे'. ५ 'अभियोक्ष्यसे'. ६. 'अयम्' इति पुस्तकान्तरे नास्ति.
अन० १६
For Private and Personal Use Only