________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः] अनर्घराववम् ।
१७१ हारस्य तत्रभवतः परमे ब्रह्मणि वर्तमानस्य पुनरुपप्लवन्ते बुद्धयः । तद्विरम, कियच्चिरमितः परमपि नाटयिष्यति भवन्तमायुधपिशाची ।
जामदग्न्यः-(विहस्य ।) अहो याज्यस्नेहः शतजन्दमाकुलयति । भवतु, सान्त्वयामि तावदेनम् । (तदभिमुखम् ।) आङ्गिर ।,
नृपस्ते पाल्योऽयं मम पशुपुरोडाशरसिकः ।
पृथिव्यामव्याजोद्भटभुजभृतः सन्ति रघवः । अमीषामुत्सितं किमपि कुलमुत्कृत्य लवशो विधाता तत्सर्वं यदभिरुचितं ते भृगुपतिः ॥ ४३ ॥
(नेपथ्ये।) आः पाप क्षेत्रियायाः पुत्र क्षत्रियभ्रूणहत्यापातकिन्, निसर्गनिष्प्राणं हि प्रहरणमिक्ष्वाकूणां ब्राह्मणेषु । तैर्यादृशस्तादृशो वा सोढव्योऽसि । कथमेवमतिक्रामन्नस्माकमपि ब्रह्मवर्चसान्न बिभेषि । जामदग्यः-(सरोषहासम् । अरे ब्रह्मबन्धो बान्धकिनेय गौतमगोत्रपांसन, कुर्युः शस्त्रकथाममी यदि मनोवैशे मनुष्याङ्कुराः
स्याच्चेद्ब्रह्मगणोऽयमाकृतिगणस्तरेष्यते चेद्भवान् । न:पुन्यं भृशार्थो वा । तत्रभवतो मान्यस्य । तवेति शेषः। ब्रह्म तत्त्वम् । उपप्लवन्तेऽस्थिरीभवन्ति । पिशाची तृष्णा । याज्यत इति याज्यो यागशिष्यः। नृप इति । ते नवायं नृपो जनको मम पाल्यो रक्षणीयः । पशुश्छागो मृगो वा । पुरोडाशो हविर्भेदः । तथा च पशुपुरोडाशरसिकोयं तपस्वी वराको न हन्तव्य इति भावः। क्रोधान्धोऽपि मान्यतया प्रवोधायाह-अमीषां रघूणामुत्सिक्तमुद्धतं कुलं लवशो लेशं लेशं कृत्वोत्कृय खण्डयित्वा यत्ते तुभ्यमभिरुचितं तव प्रीतिविषयस्तत्सर्वे भृगुपतिर्विधाता करिष्यति । रामभद्रविनाशवर्ज सकलमभिमतं ते करिष्यामीति भावः । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । नेपथ्ये पुनः शतानन्दवचनम्। आः कोपे । क्षत्रियायाः पुत्र । कुत्सितक्षत्रियायाः पुत्रेयर्थः । 'षष्ठ्या आकोशे' इत्यलुकू । भ्रूणो गर्भः । हत्या हननम् । 'हनस्त च' इति भावे क्विप् । तश्चान्तादेशः । निसर्गनिष्प्राणं खभावबलशून्यम् । ब्रह्मवर्चसं बह्मतेजः । यद्वा वृत्ताध्ययनसंपत् । 'स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिः' इत्यमरः । 'ब्रह्महस्ति. भ्यां वर्चसः' इत्यच् । वर्चसादिति 'भीत्रार्थानां भयहेतुः'इत्यपादानता। ब्रह्मवन्धो कुत्सितब्राह्मण । 'ब्रह्मवन्धुरधिक्षेपे' इत्यमरः । बान्धकिनेयोऽसतीपुत्रः। 'अथ वान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः' इत्यमरः। कुयुरिति । मनोवंशे कुले अमी मनुष्याङ्कुरा मनुष्य
१. 'भवतः'. २. 'विरम विरम'. ३. 'इयमपरमपि'. ४. 'परवन्तम्. ५. 'क्षत्रियापुत्र'. ६. 'अतिक्रमन्'.
For Private and Personal Use Only