________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मुखमवलोक्य ।) भो राजन्दशरथ, अस्मन्नामधेयमात्रमित्रेण पुत्रेणामुना माना) भवान् । किं पुनरनभिज्ञोऽसि वीरव्यवहारस्य ।
पुरमथनधनुर्विमर्दनोत्थं प्रदहदहर्दिवमस्ति तीव्रमर्चिः । रघुजनककुटुम्बबाष्पपूरैः परमिह शान्तिमुशन्ति शस्त्रभाजः ॥ ४१ ।।
(नेपथ्ये ।) आः जामदग्न्यः, किमेवमेतिप्रसक्तः संन्यस्तशस्त्रानस्मानपि बलाद्धनुग्राहयसि । जामदग्यः-(सरोषम् ।) अरे विदेहप्रसपांशुल,
अयमधिपतिर्भासामेकान्तरो भवतो गुरु
स्त्वमसि तपसा यद्वर्षीयानिति स्म तितिक्ष्यसे । कथमसि धनुर्नामग्राही तदेष समाप्यते मम हि सकलक्षत्रालम्भकतोरमृतं भवान् ॥ ४२ ॥
(नेपथ्ये।) भार्गव भार्गव, च्यवनादिवृद्धवाक्यगौरवनिगृहीतसंप्रहारक्रियासमभिपुरमथनेति । पुरमथनधनुर्विमदनोत्थं हरधनुर्भङ्गसमुद्भूतं तीव्रमर्चिस्तेजोऽस्ति । अहदिवं प्रत्यहं प्रदहत् । 'अचतुर-' इत्यादिना निपातनम् । शस्त्रभाजोऽस्मदादयो रघुजनकयोः कटुम्बस्य बाष्पपूरैः परमर्चिषः शान्तिमुशन्तीच्छन्ति । 'वश कान्तौ' । 'ग्रहिज्या-' इत्यादिना संप्रसारणम् । नेपथ्ये जनकवचनम् । 'आस्तु स्यात्कोपपीडयोः' इत्यमरः। पांशुलोऽधमो दूषको वा । अयमिति । अयं भासामधिपतिः सूर्यो भवतः एकान्तरो गुरुः । याज्ञवल्क्येन सूर्यादधीतम्, जनकेन याज्ञवल्क्यात्, तेन सूर्यशिष्यशिप्यो जनकः । तपसा यद्वर्षीयान्वृद्धस्त्वमसि, अतो हेतोस्तितिक्ष्यसे स्म क्षान्तोऽसि । क्वचित् 'तपसे' इति पाठः। तत्र त्वमपि तपसे तपः करोषीति हेतोस्तितिक्ष्यसे स्म क्षान्तस्त्वम् । धनुर्नामग्राही धनुषो नामग्रहणकर्ता कथमसि । अपि तु धनुर्नामग्राही यदसि तत्तस्मादेष भवान्समाप्यते । मार्यत इत्यर्थः । कीदृशः । मम हि ममैव सकलक्षत्रालम्भकतोर्निखिलक्षत्रियमारणयज्ञस्यामृतं यज्ञशेषीभूतः । तितिक्ष्यस इत्यत्र 'तिज निशामने' । 'गुप्तिकिझ्यः सन् ' इति क्षमायां सन्। 'लट् स्मे' इति कर्मणि लट् । 'हि हेताववधारणे' इत्यमरः । 'अमृतं यज्ञशेषे स्यात्' इति विश्वः । च्यवनो मुनिः । वृद्धः पण्डितः सुचिरो वा । निगृहीतः संकुचितः । संप्रहारो युद्धम् । क्रियासमभिहारः पौ
१. 'राजन्' इति पुस्तकान्तरे नास्ति. २. 'नामधेयमित्रेण'. ३. 'सूनुना माना:'. ४. 'शस्त्रानपि'. ५. 'पांसन'. ६. 'तपसा त्वम्'. ७. 'समाप्यसे'. ८. 'भगवन्भार्गव'.
For Private and Personal Use Only