________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः]
अनर्घराघवम् । अवनिमधिकविंशानभ्यवस्कन्ध वारा
नवभृथभृतकेभ्यः संप्रदाय द्विजेभ्यः । विरमति रमणीयाद्वन्द्वयुद्धात्कथं मे निखिलनृपतिहत्यादृष्टसारः कुठारः ॥ ३९॥
(पुनर्नेपथ्ये ।) भृगुतिलक नमस्ते मुञ्च वैमत्यमेत
त्कुरु करुणमिदानीं मानसं मानशौण्ड । वहति बत किमस्त्रं पुत्रभाण्डेऽपि रामे
त्रिजगदभयदानस्थूललक्षो भुजस्ते ॥ ४० ॥ जामदग्न्यः-(रामं प्रति ।) अये, धीरकर्कशस्वरः क एषः । रामः-(सप्रश्रयम् ।) भगवन्, अयं नस्तातो रघुपतिः ।
जामदम्यः-(सव्यथम् । धिक्, सर्वतः क्षेत्रकलम्बोद्भेदः (नेपथ्याभियैव त्यक्तातः किमर्थमायुधग्रहणमिति भावः । पुराणवाजसनेयेनोक्तं वेद वा, अधीते वा । 'शौनकादिभ्यश्च' इति णिनिः । ब्रह्म वेदः । गृहीतं [वाक्यं यस्य सः । यद्वा गृहीतं] ज्ञातं वाक्यं वेदवाक्यं येन सः । अवसरः प्रस्तावः । अवनिमिति । मे मम कुठारो द्वन्द्वस्य युग्मस्य युद्धं द्वन्द्वयुद्धं तस्मात्कथं विरमति। अपि न कथमपीत्यर्थः। अधिकविंशानधिका विंशतिर्येषां तानेकविंशतिवारानभ्यवस्कन्द्य मारयित्वा । क्षत्रियानित्य
र्थात् । स्कन्दिरभ्यवपूर्वो मारणार्थः । 'हन्त्यर्थाश्च' इति चुरादिपाठाण्णिच् । अवनिं द्विजेभ्यो ब्राह्मणेभ्यो दत्त्वा । कीदृशेभ्यः । अवभृथो यज्ञान्तस्तस्य भृतका वैतनिका ऋत्विजस्तेभ्यः । यागे भृतिभुगृत्विग्भवति । हत्या हननम् । 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः । 'भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः' इति धरणिः । नेपथ्ये दशरथः परशुरामादनिष्टमाशङ्कमानः पुत्रस्नेहात्तं निवर्तयितुमाह-भृगुतिलकेति । मानेन माने वा शौण्ड ख्यात हे, ते तव भुजः पुत्रभाण्डेऽपि पुत्रतुल्येऽपि रामे रामचन्द्रे कि. मस्त्रं वहति कुतोऽस्त्रं धारयति । अपि तु पुत्रेऽस्त्रधारणमयुक्तमिति भावः । बत खेदे । अस्त्राधारणे हेतुमाह-त्रिलोक्या अभयदाने स्थूललक्षो बहुप्रदः । तथा च रामचन्द्रेऽप्यभयदानं युक्तमिति भावः । वैमयं मतविपरीतता। करुणं कृपामयम् । 'भाण्डं पात्रेऽपि सदृशे खल्पेऽपि च निगद्यते' इति धरणिः । 'स्थूललक्षो बहुप्रदः' इत्यमरः। धीरो गभीरः । धिकू निन्दायां सामान्यतः। तेन तद्योगेन द्वितीया । सर्वतः सर्वत्र । कलम्बोऽङ्कुरः। उद्भेदः प्रकाशः । गुरुधनुर्भङ्गजन्यक्रोधान्धः स्तुतिमप्यसहिष्णुराह
१. 'पुनः' इति पुस्तकान्तरे नास्ति. २. 'कदम्बकोद्भेदः'. ३. 'नेपथ्याभिमुखः'.
For Private and Personal Use Only