SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ काव्यमाला। (उच्चैश्च ।) अहो तु खलु भोः, त्रैलोक्यत्राणशौण्डः सरसिजवसतेयः प्रसूतो भुजाभ्यां स क्षत्रं नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णोर्विलीनः । ज्वालाजिह्वालकालाललकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जगन्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः॥ ३७ ॥ (नेपथ्ये।) भगवन्भार्गव, अप्रवृत्तिविषयं वितन्वतः क्षत्रशब्दमियमेव मेदिनी । दक्षिणा तव बभूव यज्वनो मुञ्च संप्रति तु शुष्कमायुधम् ॥ ३८ ॥ जामदग्न्यः-अये, प्रशान्तगम्भीरः क एषः । तर्हि जनकेन भवितव्यम् । (तदभिमुखमवलोक्य ।) रॉजर्षे सीरध्वज, भगवतः सूर्यशिष्यात्पुराणवाजसनेयिनो याज्ञवल्क्यादधीतब्रह्मसिद्धान्तो गृहीतवाक्य एवासि । किं तु नायमवसरः शिष्टानुरोधस्य । भवद्वचोभिरयं मम करो हस्तः कृतान्तो यमस्तस्य दंष्ट्रा दन्तः स एव ककचः करपत्रं 'करवत' इति प्रसिद्धं तद्वत्कटोरो यः कुठारस्तेन दुर्निरीक्ष्योऽजनि । जात इत्यर्थः । विनयेन निचुलितैः पिहितैः । तथा च विनयेन पिहितम्, परं न त्वभ्यन्तरेऽपि विनयोऽस्तीति भावः । नोऽस्माकं किमप्यनिर्वचनीयं धनुर्भङ्गरूपमकं कलङ्क विवृणद्भिः प्र. काशयद्भिः । 'अहो नु खलु भोरिति विस्मये संप्रयुज्यते' इति भरतः । त्रैलोक्यति । अयं पार्वतीधर्मपुत्रः परशुरामः। हरशिष्यत्वात्तस्य । ज्वलति दीप्यते । अतिक्रुद्ध इति यावत् । कीदृशः । त्रैलोक्यरक्षायां शौण्डः ख्यातो दर्पिष्टो वा । पुनः कीदृशः । ज्वालैव जिह्वा तद्योगालच् । एतादृशो यः कालानलः प्रलयाग्निः । यद्वा कालो यमः स एवानलोऽग्निस्तस्य कवलनभयेन ग्रासत्रासेन भ्रान्ताः पलायिता देवा असुराश्च येषु । तादृशानि जगन्ति भुवनानि व्यातन्वानो विस्तीर्णीकुर्वन् । यस्य परशुरामस्य दोष्णोर्बाह्वोरधिकरणयोः सः क्षत्रं नाम वर्णः क्षत्रियजातिर्विलीनो लयितः । कीदृशः क्षनं नाम वर्णः । सरसिजवसतेर्ब्रह्मणो भुजाभ्यां संप्रसूतो जातः । बाहुजत्वाक्षत्रियस्य । 'बाहू राजन्यः कृतः' इति श्रुतेः । 'शौण्डो मत्ते च विख्याते दर्पशालिन्यपि स्मृतः' इति विश्वः । दोष्णोरित्यत्र 'पद्दन्नोमास्-' इत्यादिना दोःशब्दस्य दोषनादेशः। नेपथ्ये जनकः परशुरामक्रोधादनिष्टमाशङ्कमान आहअप्रवृत्तीत्यादि। यज्वनो याज्ञिकस्य तवेयमेव पृथ्वी दक्षिणा बभूव । तस्माखेतोः संप्रति शुष्कं निष्फलम् । कार्याभावात् । आयुधं मुञ्च । त्यजेत्यर्थः । भूमिदक्षिणा १. 'संप्रसूतः'. २. 'भार्गव भार्गव'. ३. 'अप्रवृत्त'. ४. 'प्रशान्तगम्भीरखरेण जनकेन'. ५. 'राजर्षे' इति पुस्तकान्तरे नास्ति. ६. 'वागेवासि'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy