________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः अनर्घराघवम् ।
१६७ क्षिपति न खलु कालं वीरगोष्ठीविनोद
प्रियपरशुरयं मे बाहुरुद्यच्छमानः ॥ ३४ ॥ रामः-(वगतम् ।) अये भगवन्तं विश्वामित्रमपि स्पृशति । भवत्वेवं तावत् । (प्रकाशम् । सधैर्यस्मितम् ।)
भूमात्रं कियदेतदर्णवमयं तत्साधितं हार्यते __ यद्वीरेण भवादृशेन वदति त्रिःसप्तकृत्वो जयः । डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रतं ।
तत्कोपाँद्विरम प्रसीद भगवञ्जात्यैव पूज्योऽसि नः ॥ ३५ ॥ जामदग्यः--(सक्रोधकम्पं खगतम् ।) अहो दुरात्मनोऽस्य राजन्यपोतस्य वीरप्रहतायाः पद्धतेरस्खलितमुक्तिप्रत्युक्तिवैदग्ध्यम् । (प्रकाशम् ।) आः पाप, जात्यैव केवलया पूज्यस्ते परशुरामः । कथमद्यापि निरायुधोऽसि । विनयनिचुलितैर्भवद्वचोभिः किमपि नवं विवृणद्भिरङ्कमन्तः ।
अयमजनि करः कृतान्तदंष्ट्राक्रकचकठोरकुठारदुर्निरीक्ष्यः ।। ३६ ।।। कार्तिकेये जिते सति कथमहो मत्पुत्रः पराजयीति सलज्जा या पार्वती योग्यपुत्रप्रसवितृत्वात्त्वमतिधन्यासीति परशुराममातरं स्तुतवतीति फलितोऽर्थः । अनुभवेति । अनुभवेन पुनरुक्तां पुनः कथिताम् । उपनमयारोपय । कौशिक आद्य उपदेष्टा यत्र तत्कौशिकोपज्ञम् । 'उपज्ञा ज्ञानमाद्यं स्यात्' इत्यमरः । खलु यस्मादर्थे । वीरगोष्टी युद्धम् । उद्यच्छमान उद्यतो भवन् । 'समुदाङ्झ्यो यमोऽग्रन्थे' इति तङ् । विश्वामित्रमपि स्पृशतीति कौशिकोपज्ञमस्त्रमुपनमयेत्यनेनेत्यर्थः । भवत्वेवमिति । वीरसदृशं कर्माचरिष्यामीति भावः । भूमात्रमिति । भूमात्रं भूमण्डलं कियदेतत् । अपि त्वल्पमिदम् । अर्णवमयं समुद्रव्याप्तम् । तद्भूमात्रं साधितं जितं सद्भवादृशेन वीरेण यद्धार्यते तत्रिःसप्तकृत्व एकविंशतिवारान्कृतो जयो वदति कथयति । यदि हि मध्ये तन्न हारितं स्यात्तदा पुनः कथं जयः स्यात् । एकजयेनैव निर्वाहादिति भावः । त्रिरिति 'द्वित्रिचतुर्व्यः सुच्'। सप्तकृत्व इति 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' । अयमहं रामो डिम्भो बालकः । नवबाहुः कोमलबाहुः। वीरव्रतं घोरं भयानकम् । तर्हि किमुचितमित्यत आह-तस्माद्धेतोः कोपाद्विरम विरतो भव । नोऽस्माकं जात्यैव ब्राह्मणत्वेनैव त्वं पूज्योऽसि । ब्रह्मवधभयादेव क्षम्यत इति भावः । कोपादिति 'जुगुप्साविराम-' इत्यादिनापादानता । विरमेति 'व्याड्परिभ्यो रमः' इति परस्मैपदम् । वीरप्रहताया वीरशीलितायाः । पद्धतेर्मार्गात् , मार्गस्य वा । उक्तिप्रत्युक्तिवैदग्ध्यमुत्तरप्रत्युत्तरकौशलम् । विनयनिचुलितैरिति ।
१. "मितम्'. २. 'अहम्'. ३. 'क्रोधात्'. ४. 'सक्रोधकम्पम्' इति पुस्तकान्तरे नास्ति. ५. 'अस्य' इति पुस्तकान्तरे नास्ति. ६. 'महावीर'.७. 'प्रकाशं सरोषम्'. ८. 'पूजनीयः'.
For Private and Personal Use Only