________________
Shri Mahavir Jain Aradhana Kendra
१६६
www.kobatirth.org
काव्यमाला |
जामदग्यः —– (सरोषम् ।) आः क्षुद्रक्षत्रियडिम्भ, कथं प्रमथनाथप्रथमान्तेवासिनं परशुराममपि भवान्नाजीगणत् ।
महासेनो यस्य प्रमदयमदंष्ट्रासहचरैः
Acharya Shri Kailassagarsuri Gyanmandir
शरैर्मुक्तो जीवन्द्विरिव शरजन्मा समभवत् । इमां च क्षत्राणां भुजवनमहादुर्गविषमामयं वीरो वारानजयदुपविंशान्वसुमतीम् ॥ ३२ ॥ रामः– शान्तं शान्तम् । प्रसीद भगवन् । अविमृष्यकारितया न गणितोऽसि । न पुनरवलेपात् ।
स्त्रीषु प्रवीरजननी जननी तवैव
देवी स्वयं भगवती गिरिजापि यस्यै । त्वद्दोर्वशीकृतविशाखमुखावलोक
व्रीडाविदीर्णहृदया स्पृह्यांबभूव ॥ ३३ ॥
जामदम्य: – (विहस्य 1) रे राजन्यपोत,
अनुभवपुनरुक्तां मुञ्च नः स्तोत्रचर्या - मुपनमय तदेतत्कौशिकोपज्ञमस्त्रम् ।
लितमित्यर्थः । अमङ्गलं धनुर्भङ्गरूपम् । आः कोपे । प्रमथनाथः शिवः । 'पिनाकी प्रमथाधिपः' इत्यमरः । नाजीगणन्न गणितवान् । 'गण संख्याने' । णिच् । लुङ् । च्लेश्चङ् । 'ई च गण:' इत्यभ्यास ईकारः । महासेन इति । महासेनः कार्तिकेयः । 'कार्तिकेयो महासेनः शरजन्मा' इत्यमरः । यस्य मम यमदन्ततुल्यैः शरैर्मुक्तस्त्यक्तः सन् द्विरिव द्वौ वारौ शरजन्मा समभवद्वृत्तः । शरवणे जातत्वात्प्रथमं शरजन्मेति, पुनरपि परशुरामराराज्जातत्वादस्य वारद्वयं शरजन्मत्वमिति भावः । सोऽयं परशुराम उपविंशानेकविंशतिवारान्वसुमतीं पृथ्वीमजयज्जितवान् । क्षत्राणां भुजवनेन महादुर्गामत एव विषमां कठिनाम् । प्रमदो दृप्तोऽतिमत्तो वा । द्विरिति । 'द्वित्रिचतुर्भ्यः सुच्' । उपविंशानिति । उपगता निकटस्था विंशतिर्येषां तान् । एकविंशानित्यर्थः । 'अवलेपः स्मृतो गर्वें' इति विश्वः । स्त्रीष्विति । स्त्रीषु मध्ये प्रवीरजननी प्रकृष्टवीरसवित्री । जननी माता । गिरिजा गौरी यस्यै त्वन्मात्रे स्पृहयांबभूव स्पृहां चकार । गौरवं कृतवतीत्यर्थः । 'स्पृहेरीप्सितः' इति संप्रदानता । वशीकृतो निष्पीडितः । विशाख: कार्तिकेयः । 'विशाखः शिखिवाहनः ' इत्यमरः । विदीर्णमिव विदीर्णम् | परशुरामेण कौतुकेनैव बाहुपीडनेन
१. 'क्षुद्र' इति पुस्तकान्तरे नास्ति २. 'प्रसीद' इति पुस्तकान्तरे नास्ति. ३. 'रे राजन्यपोत' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only