________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
काव्यमाला।
जटां धत्ते मूर्धा परशुधनुषी बाहुशिखरं
प्रकोष्ठो रौद्राक्षं वलयमिषुदण्डानपि करः । प्ररूढप्रौढास्त्रवणविकटरौद्राद्भुतमिदं
__ प्रशान्तामैणेयीं त्वचमपि च वक्षः कलयति ॥ २७ ॥ (इत्युपसर्पति ।)
जामदग्यः-(विलोक्य ।) कथमयमसौ श्रूयमाणगुणोनुकल्पिताकारसंवादी दाशरथिः । साधु रे राजन्यपोत, साधु ।
सविधमुपसरन्समूलकाषं कषितनृपान्वयमद्य मां धिनोषि । हरिमिव करिकुम्भकूटकोटिप्रकटकठोरनखाङ्कुरं कुरङ्गः ।। २८ ।।
रामः-(सस्मितम् ।) भगवन्भार्गव, गुरुगर्भरूपयोरेतावदेवान्तरम् । किं च ।
आदेष्टा भगवान्भृगुर्जननयोरौत्पत्तिकब्राह्मयो
देवो धूर्जटिरस्त्रकर्मणि गुरुर्वीर्य चे दूरेगिराम् । लट् । आभोगः शरीरपरिपूर्णता । संकीर्यमाणानेकरसत्वमेव स्फोरयति-जटामिति । मूर्धा शिरो जटां धत्ते । बाहुशिखरं कर्तृ, परशुश्च धनुश्च परशुधनुषी ते कर्मभूते । सर्वत्र कलयतीत्यनेनान्वयः । जनितान्वयस्यापि पुनरन्वय आकाढावशात् । आवृतिवा कलयति पदे । रुद्राक्षस्येदं रौद्राक्षं वलयं जपमालाम् । प्ररूढमुत्पन्नम् । विकटे स्फुटे रौद्राद्भुते रसौ यत्र तत् । एण्या विकार ऐणेयी । 'एण्या ढञ्' । वक्षो हृदयं कर्तृ । कलयति दधातीत्यर्थः । अनुकल्पितोऽनुगतः । आकारो वेषो रूपं वा। 'यत्राकृतिस्तत्र गुणा वसन्ति' इति नीतेः । रे आक्षेपे नीचामन्त्रणे वा । बालकाभिमानेन राम तर्जयन्नाह-सविधमिति । सविधं समीपमुपसरन्नागच्छंस्त्वं मां धिनोषि प्रीणयसि । कीदृशम् । समूलकाषं समूलं कषितो हतो नृपान्वयः क्षत्रियवंशो येन तम् । कमिव कः । हरिमिव कुरङ्गः । यथा कुरङ्गो हरिणो हरि सिंहं प्रीणयति तथा त्वं मामित्यर्थः । तथा च यथा हरिणमारणे सिंहस्य न काप्यशक्तिस्तथा भवद्विनाशे ममेति भावः । कीहशम् । करिणां हस्तिनां कुम्भो गण्डस्थलं तस्य कूटं समूहः शिखरं वा । 'कूटं शिखरसंघयोः' इति धरणिः । तस्य कोटिः संख्याभेदस्तत्र प्रकटः स्फुटः कठोरः कठिनः । विदारक इति यावत् । नखाङ्कुरो यस्य तम् । समूलकाषमित्यत्र 'समूलनिमूलयोः कषः' इति णमुल् । 'यथाविध्यनुप्रयोगः पूर्वस्मिन्' इति कषेरेवानुप्रयोगः । गुरुमहान् । गर्भरूपो युवा । अन्तरं विशेषः । आदेष्टेति । हे अप्रतिमानुभाव अधिकपराक्रम, भवते
१. 'आः, कथमसौ'. २. 'गुणानुरूपकल्पिताकार-'. ३. गुरुगर्भयोः', 'गुरुभर्गयोः'. ४. 'तु'.
For Private and Personal Use Only