________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्क अनर्घराववम् ।
१६३ वारानासन्नविंशान्विशसितविषमक्षत्रजातिप्ररोहः
क्रोधादुत्कृत्तगर्भामिषरुधिरवसाविस्रगन्धिः कुठारः ॥ २५ ॥ रामः-(दृष्ट्वा सहर्षबहुमानम् ।) जेतारं दशकंधरस्य रभसाहोःश्रेणिनिःश्रेणिका
तुल्यारूढसमस्तलोकविजयश्रीपूर्यमाणोरसम् । यः संख्ये निजघान हैहयपतिं शत्रोर्मुखं दृष्टवा
__ न्यः पृष्ठं ददतोऽपि षण्मुखजये सोऽयं कृती भार्गवः ।। २६ ॥ (क्षणं च निर्वर्ण्य सस्मितम् ।) अहो संकीर्यमाणानेकरसानुभावगम्भीरमधुरोऽयमस्याभोगः । तथाहि ।
रे इति नीचामन्त्रणे । ये काकुत्स्थाः काकुस्थकुलोद्भवा राजानः, अयं भार्गवीयो भार्गवसंबन्धी कुठारः शस्त्रविशेषो वो युष्माकं श्रुतिविषयं श्रवणपथं नागमन गतः । यतः प्रगल्भा भवन्त इति शेषः । कीदृशः कुठारः । दुःसामन्तस्य- दुष्टाधीश्वरस्य अर्थात्सहस्रार्जुनस्यापचारेणापराधेन प्रचित उपचितः । कृत इति यावत् । पितृवधस्तजन्यामर्षस्य निस्तारे बन्धुभित्रम् । पूर्व सहस्रार्जुनेन जमदग्निर्हतः, अनन्तरं पितृवधामर्षात्परशुरामेण क्षत्रिया हता इति पुराण एव स्फुटम् । आसनविंशानेकविंशतिसंख्याकान्वारान्विशसितो मारितो विषमक्षनजातेः प्ररोहोऽङ्कुरो येन सः । पुनः कीदृशः । क्रोधादुस्कृत्तः खण्डितो यो गर्भः । अर्थात्क्षत्रियस्त्रीणाम् । तस्यामिषरुधिरवसाभिर्विस्रगन्धिरामगन्धिः । ननु 'विस्रं स्यादामगन्धि यत्' इत्यादेविस्रशब्देनैवामगन्धिप्राप्तेः किमर्थ पुनर्गन्धिपदोपादानमिति चेत् । न । यत्र पर्यायशब्दोपादानं तत्रातिशयित एवार्थो गम्यत इत्युक्तत्वात् । आसन्नविंशानिति आसन्ना विंशतिर्येषाम् । 'संख्ययाव्ययासन्न-' इत्यादिना बहुव्रीहिः । 'बहुव्रीही संख्येये डजबहुगणात्' इति डच् । 'तिविशतेर्डिति' इति टिलोपः । आमिषं मांसम् । 'मांसं क्रव्यमामिषम्' इति हारावली । सामन्तः कतिपयदेशाधिपः परुषं वदन्तमपि स्वमहिम्ना स्तौति-जेतारमिति । सोऽयं कृती युद्धकुशलो भार्गवः परशुरामः । अस्तीति शेषः । यः संख्ये सङ्ग्रामे हैहयपतिं सहस्रार्जुनं निजघान हतवान् । कीदृशम् । दशकंधरस्य रावणस्य जेतारम् । कीदशस्य । रभसाद्दोःश्रेणिरेव भुजपतिरेव निःश्रेणिकाधिरोहिणी । 'कटकली' इति ख्याता । तत्र तुल्यमेकदैवारूढा या समस्तलोकविजयश्रीस्तया पूर्यमाणमुरो यस्य तस्य । रभसो हर्षः । स च तुल्यारोहेण जनितः । यः षण्मुखजये कार्तिकेयजये शत्रोः कार्तिकेयस्यैव पृष्टं ददतोऽपि मुखं दृष्टवान् । षष्मुखस्य पश्चादपि मुखसंभवादिति भावः । 'निःश्रेणिस्त्वधिरोहिणी' इत्यमरः । संकीर्यमाणः खयं संकीर्णीभवन् । कर्मकर्तरि
For Private and Personal Use Only