________________
Shri Mahavir Jain Aradhana Kendra
१६२
www.kobatirth.org
काव्यमाला |
शूराणां च तपखिनां च परमां काष्ठामधिष्ठास्नुभिस्तेजोभिर्भगवानसौ भृगुपतिर्दिष्ट्याद्य दर्शिष्यते ॥ २३ ॥
जामदग्न्यः - (सखेदोपालम्भमात्मानं प्रति ।)
भस्माङ्करेति खुरलीकलहे कुमारमप्याक्षिपन्परुष रोष रसान्धचेताः ।
Acharya Shri Kailassagarsuri Gyanmandir
दृष्टोऽस्मि यः कृतमिथोहसितं शिवाभ्यां तच्चापभङ्गमपि हा सघृणः शृणोमि ॥ २४ ॥ (विमृ॑श्य च ।) अहो मामरण्यनिवासिनमुपश्रुत्य दुरात्मना रघुकुटुम्बकेन दूरमुच्छुसितम् । (किंचिदुच्चैः ।)
रे काकुत्स्थाः कथं वः श्रुतिविषयमयं नागमद्भार्गवीयो
दुःसामन्तापचारप्रचितपितृवधामर्षनिस्तारबन्धुः ।
,
'प्राणिस्थात्- ' इत्यादिना लच् । जुहवांबभूविमेत्यत्र 'भीहीभृहुवां वच' इत्याम् । हुवद्भावश्च । क्षत्रियक्षुद्रेष्विति 'क्षुद्राज्जातिः' इति समासः । 'अमृतं विघसो यज्ञशेष भोजनशेषयोः ।' इति मेदिनीकरः । साकमिति । असौ भगवान्भृगुपतिः परशुरामो दिष्टया भाग्येन दर्शिष्यते द्रष्टव्यः । मयेति शेषः । यः शक्तिधरेण कार्तिकेयेन सह तत्रभवतो मान्याद्भवानीपतेर्देवान्महेशात्सम्यञ्चं सम्यग्रूपम् । 'समः समि' इति सम्यादेशः । चापनिगमं धनुर्वेदं सम्यश्चि सामानि चावाप प्राप्तवान् । तेजोभिरिति 'इत्थंभूतलक्षणे तृतीया' । शूराणां च तपखिनां च परमामतिशयितां काष्ठामवधिमधिष्ठानुभिरधिष्ठानशीलैः । चकारौ समुच्चयार्थौ । ‘शक्तिधरः कुमारः क्रौञ्चदारण:' इत्यमरः । दर्शिष्यत इति कर्मणि ऌट् । 'स्यसिच्सीयुट् -' इत्यादिना चिण्वदिट् । अधिष्ठानुभिरिति 'ग्लाजिस्थश्च रस्नुः’। ‘उपसर्गात्सुनोति -' इति षत्वम् । अतिक्रोधेन रामोक्तमौचितीमश्रुत्वैवाह भरमेति । हा कष्टं सोऽहं सघृणो गर्हितः कृपावान्वा, तच्चापभङ्गं तस्य शिवस्य चापभङ्ग धनुर्भङ्गमपि शृणोमि । 'मसृण:' इति पाठे मन्द इत्यर्थः । स कः । योऽहं परुषं निष्टरोक्तिः, रोषरसश्च ताभ्यामन्धं मुग्धं चेतो यस्य तादृशः सन् । खुरलीकलहे शस्त्राभ्यासकलहे प्रकृतत्वाद्भस्माङ्कुर हे इति कृत्वा कुमारं कार्तिकेयमप्याक्षिपन्सन् । शिवाभ्यां भवभवानीभ्यामयमहो महारोषणो मामपि गुरुं गुरुपत्नीं च न गणयति, प्रत्युत कोपान्निन्दतीत्याशयेन कृतमिथोहसितं कृतान्योन्यहासं यथा स्यादेवं दृष्टोऽस्मि । भस्माङ्कुरो नष्टतपखिसुतः । 'अभ्यासः खुरली योग्या' इति हारावली । परुषं कर्बुरे रूक्षे निष्टरोक्तौ तु वाच्यवत् ॥' इति मेदिनीकरः । शिवाभ्यामिति शिवश्च शिवा च शिवौ ताभ्याम् । 'पुमान्स्त्रिया' इत्येकशेषः । अहो कष्टे । रामासंनिधानभ्रमादाह - रे काकुस्था इति ।
१. 'अधिष्टानुभिः'. २ ( ( विमृश्य ।) अहो नु खलु मामरण्यवासिनम्'.
For Private and Personal Use Only