________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः
अनर्घराघवम् । (सविमर्शाश्चर्यम् ।)
शंभुर्यद्गुणवल्लरीमुपनयत्याकृष्य कर्णान्तिकं
भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः । खं चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो
भिद्यन्ते वलयानि दाशरथिना तद्भग्नमैशं धनुः ॥ २१ ॥ (सरोषविकटं परिक्रामन् ।) भो भो विदेहाः, क रामो दाशरथिः ।
यस्मिन्नर्जुनदोःसहस्रमलकप्रोद्गच्छदस्रच्छटा
जिह्वाले जुहवांबभूविम रुषा राजन्यसत्तामपि । सोऽयं प्राकवलग्रहस्य विधसीभूतेष्वपि क्षत्रियक्षुद्रेषु क्षुधितश्चिरेण परशुस्तेनायमन्विष्यते ॥ २२ ।।
(ततः प्रविशति सधैर्यप्रमोदो दाशरथी रामः ।) रामःसाकं शक्तिधरेण तत्रभवतो देवाद्भवानीपते
यः सम्यञ्चमवाप चापनिगमं सम्यञ्चि सामानि च । दृश्यते' इति दीर्घः । पाणिधमा इति 'उग्रंपश्येरंमदपाणिधमाश्च' इति निपातः । शंभुर्यदिति । यस्य धनुषः । गुणवल्लरीं गुणलताम् । कर्णान्तिकं कर्णसमीपम् । भ्रश्यन्ति पतन्ति । अवरोधोऽन्तःपुरम् । सुदृशां स्त्रीणाम् । खं स्वकीयम् । प्रकोष्ठकं कफोणेरधोभागम् । इमां गुणवल्लरीम् । तासां त्रिपुरावरोधसुदृशाम् । अहो आश्चर्ये । येन धनुषा तासां पतिवधनिश्चयात्कोत्पलाद्यधारणमिति भावः । अन्यस्य कर्णघातेनान्यासां कर्णोत्पलभ्रंशः, अन्यस्य प्रकोष्ठास्फालनेनान्यासां वलयभ्रंश इत्याश्चर्यम् । विरोधनामायमलंकारः । भिद्यन्त इति कर्मकर्तरि तङ् । 'भूभुजामन्तःपुरं स्यादवरोधनम्' इत्यमरः । यस्मिन्निति । यस्मिन्परशौ । रुषा क्रोधेन । राजन्यस्य क्षत्रियस्य । सत्तां विद्यमानताम् । सामस्त्यमिति यावत् । यद्वा सत्तां गुणतया व्यवस्थिताम् । तथा गुणीभूता अपि क्षत्रिया हता इति भावः । यद्वा सत्तां खरूपम् । तथा च स्वरूपनाशे सर्व एव नष्टा इति भावः । वयं जुहवांवभूविम हुतवन्तः । सोऽयं परशुः क्षत्रियक्षुद्रेषु सत्सु चिरेण क्षुधितो यतस्तेन हेतुनायं क्षत्रियो रामोऽन्विष्यतेऽनुसंधीयते । मयेति शेषः । कीदृशेषु । प्राकवलग्रहस्य प्राथमिककवलग्रहस्य विघसीभूतेषु । भोजनशेषभूतेषु । कीदृशे परशौ । अर्जुनः कार्तवीर्यस्तस्य दोःसहस्रमेव नलकं मांसादिवेधकलोहशलाका तस्माप्रोद्गच्छन्ती यात्रच्छटा रुधिरच्छटा सैव जिह्वा । लोहितत्वात् । तद्योगाज्जिह्वाले ।
१. 'शंभौ'. २. रुग्णं तदीदग्धनुः'. ३. 'अद्य'. ४. 'सधैर्यसंभ्रमो रामः'.
For Private and Personal Use Only