________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
काव्यमाला।
(ततः प्रविशति शरचापहस्तः क्रोधोद्धतो जामदग्न्यः ।) जामदग्न्यः-(सखेदम् ।) अहह यथा मृष्टभोजिना कृतान्तेन प्रत्यवसितास्ते सांयुगीनाः । वर्तमाने तु
शस्त्राशस्त्रिकथैव का नवभवद्गीर्वाणपाणिंधमाः
पन्थानो दिवि संकुचन्ति वसुधा वन्ध्या न सूते भटान् । लक्ष्मीरप्यरविन्दसौधवलभीनियूंहपर्यङ्किका
विश्रान्तैरलिभिर्न कुञ्जरघटागण्डोद्गतैर्मोदते ॥ २० ॥ चतुरन्तरीपस्य चतुद्वीपस्य । 'द्वीपोऽस्त्रियामन्तरीपम्' इत्यमरः । ज्यानादष्टंकाररूपस्तेन रौद्रं भीषणम् । स्त्रैणेति स्त्रियां भवं स्त्रैणम् । 'स्त्रीपुंसाभ्यां नलजी भवनात्' इति नञ् । खादिति 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पेन स्मादादेशविधानात् । अन्तरस्मादिति 'अन्तरं बहिर्योगोपसंव्यानयोः' इत्यन्तरशब्दस्य सर्वनामसंज्ञायां स्मादादेशः । अहह खेदे । मृष्टं स्वादु । कृतान्तेन यमेन । प्रत्यवसिताः खादिताः । 'प्रत्यवसितगिलितखादितप्सातम्' इत्यमरः । सांयुगीना रणे साधवः सहस्रार्जुनप्रभृतयः । 'प्रतिजनादिभ्यः खञ्' । शस्त्राशस्त्रीत्यादि । शस्त्रैश्च शस्त्रैश्च प्रत्येदं युद्धं वृत्तं शस्त्राशस्त्रि युद्धं तस्य कथैव का । अपि तु न कापि । युद्धवार्ताप्यधुना नास्तीत्यर्थः । सङ्ग्रामे हता ये पार्थिवास्ते नवा नूतना भवन्तो गीर्वाणा देवास्तेषामसंख्याततया संकटगमनादन्योन्यलम्बितं पाणिं धमन्ति तापयन्ति ये पन्थानस्ते संप्रति दिवि व्योम्नि संकुचन्ति न प्रसरन्ति । रणाभावात् । नवभवदित्यत्राभूततद्भावस्याविवक्षितत्वाविप्रत्ययाभावः । विकल्पो वा तद्विधेः । वसुधा पृथ्वी वन्ध्या । प्रयोजकापत्याप्रसवात् । यत एव वन्ध्यात एव भटा. न्वीरान सूते । लक्ष्मीरपि जयश्रीरपि कुञ्जरघटा हस्तिसमूहस्तस्य गण्डस्थलनिर्गतैरलिभिर्भमरैः सह न मोदते । किं त्वरविन्दसौधवलभीनियूंहपर्यङ्किकाविश्रान्तैभ्रमरैः सह । सौधस्य वलभी उपरिकुटी तस्यां यो नियूँहो नागदन्तकः । 'खुंटा' इति प्रसिद्धः । स एव पर्यङ्किकाल्पखवा इति समासं कृत्वा पश्चादरविन्दमेव तादृशी पर्यकिका तस्यां विश्रान्तैरिति समासः । अरविन्दस्य विशिष्टपर्यङ्किकारूपणम् । सुखस्थानत्वात् । तथा च युद्धाभावाद्गजघटागण्डोद्गतालीनामप्रचारात्तैः सह संबन्धो न लक्ष्म्याः । किं तु पद्मस्थायिभ्रमरैरेव सह । तत्र तेषां वासस्योत्सर्गसिद्धत्वात् । यद्वारविन्देन सह पर्यङ्किकया द्वन्द्वसमासः । तथा चारविन्दस्थैः पर्यङ्किकास्थैश्चेत्यर्थः । अरविन्दे सहजात्, पर्यङ्किकायां तु सुगन्धिद्रव्यगन्धाकृष्टत्वावस्थानमिति भावः । यद्वा नि!हो द्वारम् । वलभ्या द्वारमित्यर्थः । '
नियूंहः शेखरे द्वारे नि!हो नागदन्तके' इति धरणिः । 'पर्यङ्किका तु खटा स्यात्' इति मेदिनीकरः । शस्त्राशस्त्रीत्यत्र 'तत्र तेनेदमिति सरूपे' इति बहुव्रीहिः । 'इच्कर्मव्यतिहारे' इतीच्समासान्तः । 'अन्येभ्योऽपि
१. 'क्रुद्धोद्धतः'. २. 'मिष्ट'. ३. 'नियूह'. ४. 'उत्कटैः'.
For Private and Personal Use Only