________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः] अनर्घराघवम् ।
१५९ (नेपथ्ये ।) भो भो जनकाग्निहोत्रपरिचारकाः, पाद्यं पाद्यम् । अर्कोऽर्थः ।
आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान____ ज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः । वक्षःपीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्का
न्प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्यः ॥ १८ ।। अपि च ।
एष स्त्रैणकपोलकुङ्कुमलिपिस्तेयोतिभीरौ भुजे
बिभ्राणश्चतुरन्तराजविजयि ज्यानादरौद्रं धनुः । तूणावेव पुनस्तरां द्रढयति खादन्तरस्मात्पटा
दाकृष्टैः कुशचीरतन्तुभिरभिक्रुद्धो मुनिर्भार्गवः ॥ १९ ॥
राजगृहम् । 'राऊल' इति प्रसिद्धम् । अग्निहोत्रमग्निहोमः । पाद्यं पाद्यार्थमुदकमित्यर्थः । अर्घः पूजा । 'अर्घः पूजनमूल्ययोः' इति विश्वः । त्वरया आदराद्वा द्विरुक्तिः । आजन्मेति । जामदम्यः परशुरामः । प्राप्तोऽस्तीति शेषः । आजन्म जन्मन आरभ्य ब्रह्मचारी । पृथुलो विशालो यो भुजस्तत्र विराजमाना या ज्याघातश्रेणिः प्रत्यञ्चिकात्रणपतिस्तस्याः संज्ञयान्तरिताच्छादिता वसुमतीचक्रस्य भूमण्डलस्य जैत्रप्रशस्तिर्यस्य सः । ज्याघातपतिव्याजेन जयप्रशस्तिरिव लिखिता वर्तत इति भावः । घनः कठिनो निरन्तरो वा । व्रणकिणः क्षतमृतमांसचिह्नम् । संक्ष्णुवानस्तेजयन् । 'समः क्ष्णुवः' इति तङ् । पृषत्कान्वाणान् । 'पृषत्काबाणविशिखाः' इत्यमरः । राजन्यगोष्टयेव वनगजा इति रूपकम् । मृगयाखेटकम् । जैत्रेति जयतेस्तृजन्तात्प्रज्ञादित्वात्स्वार्थेऽण् । एष इति । एष भार्गवो मुनि गोरपयं परशुरामोऽतिक्रुद्धः सन् । पिनाकभङ्गश्रवणादिति भावः । खात्वकीयादन्तरस्मादुत्तरीयात्पटाद्वस्त्रादाकृष्टैः कुशचीरतन्तुभिः सूक्ष्मवल्कलसूत्रैः करणभूतै: तूणावेव इषुधी कर्मभूतौ पुनस्तरां पुनरपि द्रढयति । किं कुर्वन् । भुजे बाहौ धनुर्बिभ्राणः । कीदृशे । स्त्रैणः स्त्रीसंबन्धी यः कपोलस्तत्र या कुङ्कुमलिपिः कुङ्कुमपत्रावली तस्याः स्तेयेन चौर्येणातिभीरावतिशयितशङ्के । अन्योऽपि स्तेयेन सशको भवति । अनेनापि परशुरामबाहुना क्षत्रियस्त्रीणां कुङ्कुमलिपिश्चोरिता । अतः सशङ्कोऽसावित्यर्थः । यद्वा तस्यास्तेये चौर्येऽतिभीरौ । तदीयभुजे स्त्रीकपोलकुङ्कुमलिपिप्रोञ्छनं न संवृत्तम् । स्त्रीसंबन्धाभावात् । आजन्मब्रह्मचारित्वात् । धनुः कीदृशम् । चतुरन्तराजविजयि चतु:समुद्रान्तराजविजयीत्यर्थः । 'चतुरन्तरीपविजयि' इति पाठे
१. 'क्षत्रस्त्रैण'. २. 'अतिभीमे'; 'अतिरौद्रे'.
For Private and Personal Use Only