________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
काव्यमाला।
स येन परशौ हुतो नृपतिरर्जुनः कौतुका
दसौ कथमुपेक्षते गुरुधनुर्व्यलीकं मुनिः ॥ १५ ॥ पैरं त्वनेनापि सकलमूर्धाभिषिक्तकण्ठकाण्डरुधिरावसेकपङ्किलकुठारेण दुरभिभवो दाशरथिः।
शूर्पणखा-(साभ्यसूयम् ।) अहो दुद्धमुहे तम्सि खत्तिअवटुए एव्वं संभावेदि मादामहो । माल्यवान्-वत्से, नैतज्जानासि ।
सर्वराजकदुर्धर्ष सर्वदेवमयं धनुः ।
भञ्जता रामभद्रेण विजिग्ये भुवनत्रयम् ॥ १६ ॥ इदानीं तु
राजन्यरुधिराम्भोधिकृतत्रिषवणो मुनिः।
प्राप्तः परशुरामोऽयं न विद्मः किं करिष्यति ॥ १७ ॥ तदेहि । राजकुलमेव गच्छावः ।
(इति निष्क्रान्तौ ।) विष्कम्भकः ।
यद्धनुः पिनाकस्तस्य व्यलीकं पीडनमप्रियं वा कथमुपेक्षते । अपि तु नायमुपेक्षां करिप्यतीत्यर्थः । येन मुनिनार्जुनः सहस्रार्जुनो नृपतिः कौतुकात्परशौ कुटारे हुतो दग्धः । मारित इति यावत् । कीदृशः । किमप्यतिशयितमुग्रं शरीरं विभ्रद्दधानः । भुजाभिवोंहुभिरर्गलिता या नर्मदा नदीभेदस्तस्या मकरो जलजन्तुभेदस्तस्य चक्र समूहस्तस्य दंष्ट्राङ्कुरस्य दन्ताग्रस्य व्रणप्रकरेण क्षतसमूहेन कर्कशं कटिनम् । पुरा किल बाहुभिर्न• मैदां बवा स्त्रीभिः सह जलक्रीडां कुर्वतः सहस्रार्जुनस्याङ्गानि मकरचकैः क्षतानीति पुराणम् । विदित्यत्र 'नाभ्यस्ताच्छतुः' इति नुनिषेधः । 'मूर्धाभिषिक्तो राजन्यो वाहुजः क्षत्रियो विराट्' इत्यमरः । पङ्किल: कर्दमयुक्तः । पिच्छादित्वादिलच् । अहो इति । 'अहो दुग्धमुग्धे तस्मिन्क्षत्रियबटुक एवं संभावयति मातामहः' [इति च्छाया।] इह दुग्धमुखोऽतिशिशुः । सर्वराजकेति । राजकं क्षत्रियसमूहः । 'गोत्रोक्षोष्ट्रोरभ्र-' इति वुञ् । दुर्धर्षे दुराकर्षम् । विजिग्ये जितम् । 'जि जये' । कर्मणि लिट् । 'सन्लिटोर्जेः' इति कुत्वम् । राजन्येति। राजन्यः क्षत्रियः। त्रिषवणं त्रिसंध्यस्नानम् । राजकुलं
१. 'परमनेन'. २. 'कण्ठकंदरा'. ३ (विहस्य ।) नैव तावजानासि'. ४. 'विजितम्'.
For Private and Personal Use Only