________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः - अनर्घराघवम् ।
१५७ माल्यवान्–(विहस्य ।) वत्से, साधु । वृद्धसंवादिनी ते दृष्टिः । यदाहुः—'यो ह्युपनतस्य पुत्रदारा तिमन्यते तस्योद्विमं मण्डलमभावायोपतिष्ठते' इति । किं पुनरस्मासु नैष निसर्गतेजस्वी संश्रयप्रवृत्तिमातिष्ठते ।
शूर्पणखा—हूं । अण्णं भणामि । अवि एव्वं करिस्सदि रामभद्दो ।
माल्यवान्-कः संशयः । लोकोत्तरं हि किमप्युन्मीलयन्तो जगति राज्योपभोगेभ्योऽपि बीभत्सन्ते महानुभावाः ।
शूर्पणखा-अण्णं वि किं वि अणत्थन्तरं अत्थ पडिदमिति तक्केमि । माल्यवान्--(सहर्षम् ।) किं तत् ।
शूर्पणखा-मए जणअणअरादो णिकन्तीए सुदं,जधा खुडिदसिरिकण्ठसरासणस्स दासरहिणो मच्छरेण सअलखत्तिअकिदन्तो परसुरामो परागदोत्ति । माल्यवान्-(संहर्षम् ।) सर्वमुपपद्यते ।
भुजार्गलितनर्मदामकरचक्रदंष्ट्राङ्कुर
व्रणप्रकरककेशं किमपि बिभ्रदुग्रं वपुः । अपि तु शरणागतस्याप्रियं न कर्तुमहतीति भावः । संवादिनी सदृशी । दृष्टिनिम् । अतिमन्यतेऽपहरति । उद्विग्नं विकलं क्रुद्धं च । मण्डलं स्वचक्रं परचक्रं च । उपतिष्टते पर्यवस्यति । यत्नं कुरुत इति यावत् । प्रतियत्ने तङ् । निसर्गतेजखी खभावतेजोयुक्तः । राम इति शेषः । संश्रयप्रवृत्तिमाश्रयेण वर्तनम् । आतिष्टतेऽङ्गीकुरुते । अपि तु नाङ्गीकुरुत इत्यर्थः । 'आङ: स्थः प्रतिज्ञाने' इति तङ् । अयमभिमानो नाम नाट्यालंकारः । 'अभिमानोऽपरित्यागो दुःखोदर्कफलस्य यत्' इति भरतः । हूं प्रश्ने । 'हूं प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः । अण्णमिति । 'अन्यद्भणामि । अप्येवं करिष्यति रामभद्रः' [इति च्छाया ।] इहैवं दण्डकारण्यप्रवेशरूपदशरथवाक्यमित्यर्थः । उन्मीलयन्तः प्रकाशयन्तः । बीभत्सन्ते जुगुप्सन्ते । राज्योपभोगानिन्दन्तीत्यर्थः । राज्योपभोगेभ्य इति 'जुगुप्साविराम-' इत्यादिनापादानता । बीभत्सन्त इति 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य' इति सन् दीर्घश्च । इदानीमेतदङ्कप्रतिपादितमर्थ स्तोतुमुपक्रमते-अण्णं वीति । 'अन्यदपि किमप्यनर्थान्तरमत्र पतितमिति तर्कयामि' [इति च्छाया ।] 'मया जनकनगरानिष्क्रान्तया श्रुतम् , यथा क्षुण्णश्रीकण्ठशरासनस्य दाशरथेर्मात्सर्येण सकलक्षत्रियकृतान्तः परशुरामः परागत इति' [इति च्छाया।] इह मात्सर्यमीर्थ्यो । कृतान्तो यमः । भुजार्गलितेति । सोऽसौ मुनिः परशुरामो गुरोर्महेशस्य
१. 'साधु वत्से'. २. 'वुद्धिः'. ३. 'अभिमन्यते'. ४. 'वत्से, कः संशयः । लोकोत्तरं किमपि रूपमुन्मीलयन्तः'. ५. 'किं च अण्णं वि'. ६. 'कीदृशं तत्'. ७. 'सहर्षम्' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only