________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः] अनर्घराघवम् ।
१५५ माल्यवान्–शृणु वत्से, कार्यज्ञासि । अस्ति वनौकसा मन्त्री जाम्बवान् । स मतङ्गाश्रमवास्तव्यामुपसृत्य श्रमणां नाम सिद्धशबरीमभ्यर्थितवान् । यथास्य वालिनो द्वैराज्येन क्षीणा लुब्धोपवारिताः प्रकृतयः किष्किन्धायां कुमारसुग्रीवमभिषेक्ष्यमाणाः सामवायिकं रामभद्रमपेक्षन्ते ।
शूर्पणखा—(सातङ्कम् ।) कधं खत्तिअपोदओ वालिणिग्गहे वि सहाओ समीहीअदि । तदो तदो।
माल्यवान्-ततश्चायोध्यातः कैकेय्या भरतवार्ताहरणाय प्रेषिता मन्थरा नाम स्थविरदासी कठोरतरणितापवैज्रानलज्वालावलीढजीविता मिथिलाप्रान्तरे तिष्ठतीति निदाघकिरणान्तेवासी सतीर्थ्यमृषि याज्ञवल्क्यमुपस्थाय "संप्रत्येव निमेषमात्रान्निवृत्तो हनूमान्कथयति । अतस्त्वमप्यस्मदनुरोधेन हैनूमत्प्रत्यवेक्षितस्वशरीरा परपुरप्रवेशविद्यया मन्थराशरीरमधितिष्ठन्ती मिथिलामुपेत्य प्रत्ययिता संविधानकमिदं दशरथगोचरीकरिष्यसि । इत्थंभौविना गुरुनिदेशचर्याप्रसङ्गेन पङ्कपाषाणविषमकण्टकव्यालकुलब
'वसेस्तव्यत्कर्तरि णिच्च' इति तद्वृद्धिः । क्षीणा अधना अप्रधाना वा । लुब्धा लोलुपाः । अपवारिता अपकृताः । प्रकृतयः शिष्टाः । समवायः सैन्यसमूहस्तं समवैत्यागत्य मिलतो भवतीति सामवायिकः । 'समवायान्समवैति' इति ठक् । कथमिति । 'कथं क्षत्रियपोतको वालिनिग्रहेऽपि सहायः समीह्यते । ततस्ततः' [इति च्छाया ।] अत्र कथमाश्चर्ये । निग्रहो मारणम् । स्थविरदासी वृद्धचेटी । कठोरः परिणतो दुःसहो वा । अवलीढं गृहीतम् । 'प्रान्तरं दूरशून्योऽध्वा' इत्यमरः । निदाधकिरणान्तेवासी सूर्यशिष्यः । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । सतीर्थ्यमेकगुरुम् । 'सतीर्थ्यास्त्वेकगुरवः' इत्यमरः । उपस्थायाभिवाद्य । परपुरमन्यकायम् । प्रत्ययिता जातसंप्रत्यया। संविधानकं रामभद्रवनप्रेषणभरतराज्यदानरूपम् । निदेश आज्ञा । 'आज्ञा निदेश आदेशः' इत्यमरः । चर्याचरणम् । प्रसङ्गः प्रसक्तिः । विषमं महत् । व्यालो
१. (चिन्तां नाटयति ।) शृणु वत्से'. २. 'श्रवणाम्'. ३. 'अपचिताः'. ४. 'कुमारम्'. ५. 'स्थविरतरा'. ६. 'कठोरतरतरणि'. ७. 'वज्रानलावलीढ-'. ८. 'प्रान्ते'. ९. 'निदाघकिरणव्याकरणान्तेवासी'. १०. 'संप्रत्येष'. ११. 'हनूमदवेक्षित'. १२. 'उपतिष्ठन्ती'. १३. 'कुरुष्व'. १४. 'भाविना च'. १५. 'व्यालबहलाम्'.
For Private and Personal Use Only