SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ काव्यमाला। रघुपतिगुणक्रीतामेतामवेहि जगत्रयीं विपरिणमते दौर्जन्यं तु प्रभुत्वपदेन नः ॥ १४ ॥ शूर्पणखा को संदेहो । तस्सि विताहमहूसवे सव्वं मए पच्चक्खीकिदम् । माल्यवान्-तदेवमेकलोष्टवधः स्यात् । तथाहि । मिथिलां प्रविश्य बलादाकृष्यमाणे कलत्रे कथं तितिक्षेत रघुराजपुत्रः । तं चोत्तिष्ठमानं पौरजानपदप्रकृतयोऽप्यनुतिष्ठरन् । किमङ्ग, संबन्धिबान्धवाः । यथोक्तम्'आरण्योऽग्निरिव दुःसहदुःखामर्षजं तेजो विक्रमयति, मण्डलस्य चानुग्राह्यो भवति' इति । शूर्पणखा-(दीर्घमुष्णं च निःश्वस्य । ) अज, किं दाथि जुत्तम् । रघुपतिगुणक्रीतां रघुपती रामस्तस्य गुणेन क्रीतामवेहि जानीहि । 'क्रीतात्करणपूर्वात्' इति ङीष् । कुतः । मुनिरपि विश्वामित्रोऽपि दिव्यास्त्राणां गुरुरुपदेष्टा बभूव । दिवौकसां देवानामजगवधनुर्भङ्गे पिनाकनामकहरधनुर्भङ्गे तावानेव महोत्सवः । धनुघ्यभंगे यादृश उत्सव आसीत्तादृश एव भन्नेऽपीत्यर्थः । पिनाकभङ्गे देवानां क्रोधस्योचितत्वात्तं विहायोत्सवाचरणे रामेऽनुरक्ता देवा इति भावः। एतादृशे रामे सलेव नोऽस्माकं प्रभुत्वशब्देन दौर्जन्यमानं विपरिणमते विपर्यस्यति । कर्मव्यतिहारे तङ् । न त्वैश्वर्यादिकं भविष्यतीति भावः । "पिनाकोऽजगवं धनुः' इत्यमरः । को संदेहो इति। 'कः संदेहः । तस्मिन्विवाहमहोत्सवे सर्वे मया प्रत्यक्षीकृतम्' [इति च्छाया । तदेवमिति । कलत्रापहरणे सतीत्यर्थः । एकलोष्टवध इति । लोष्टं मृत्तिकाखण्डम् । यथा लोष्टद्वयास्फालनेनान्यतरस्फुटनं भवति तथा यो वधः स एकलोप्टवध इत्युच्यते । मिथिलातः सीतायामपहृतायां रामो रावणो वा न भवेदित्यर्थः । यद्वा बहुभिर्जनैर्मिलित्वा लोप्टेनैकेन य एकस्य वधः क्रियते स एकलोटवधो भण्यते । आकृष्यमाण आनीयमाने । तितिक्षेत क्षमतेत्यर्थः । 'तिज निशाने' । 'गुप्तिद्भियः सन्' इति क्षमायां सन् । उत्तिष्टमानं यत्नं कुर्वाणम् । किमङ्गेति । किं पुनरित्यर्थः । अङ्ग संबोधने वा । 'अङ्ग संबोधने हर्षे पुनरर्थे च दृश्यते' इति मेदिनीकरः । यथोक्तमिति । चाणक्यादाविति शेषः। अरण्यं वनं तत्र भव आरण्यः । विक्रमयत्यतिशक्तिकयति । मण्डलस्य राष्ट्रस्य । द्वादशराजचक्रस्य वा । अनुग्राह्योऽनुगम्यः। अजेति। 'आर्य', किमिदानी युक्तम्' [इति च्छाया। ] वनौकसो वानराः । वसतीति वास्तव्यः । १. 'मिथिलायाम्'. २. 'तितिक्षते'. ३. 'राजपुत्रः'. ४. 'जानपदाः'. ५. 'किमु. ताङ्ग'. ६. 'तथोक्तम्'. ७. 'अग्निरिव दुःखा-'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy