________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः अनर्घराघवम् ।
१५३ - माल्यवान्-वत्से, मा मैवम् । महादोषो हि तादृशेन धर्मविजयिना वीरप्रवालेन परिगृहीताया वैदेह्याः प्रसह्यापहारः। प्रश्य ।
दोःस्तम्भद्वयदर्पडम्बरमिति स्पष्टं न विस्पदन्ते
वैदेहीकरबन्धसूचनमिति प्रस्तौति न वीडया । इत्यालोच्य कृतस्मितैर्मुनिभिरादिष्टेन येन क्षणा
दात्तं वन्दितमाञ्चितं च सहसा भग्नं च तादृग्धनुः ॥ १३ ॥ तत्कथं च तस्मिन्निशाचरनाथमाततायिनमनुजानीमः।
शूर्पणखा-(निःश्व॑स्य । ) जधा णिरूविदं मादामहेण । अहो कालस्स माहप्पं, जं दाणिं तिहुअणजअलच्छीलीलावन्दिआरे महाराअरावणेवि एव्वं मन्ती अदि। माल्यवान-वत्से, मुनिरपि गुरुर्दिव्यास्त्राणां बभूव दिवौकसा
मजगवधनुर्भङ्गे तावानहो स महोत्सवः । विना नान्या युक्तिरिति भावः । मा मैवम् । वदेत्यध्याहार्यम्। महान्दोषो यस्मात्स महादोषः। धर्मेण विजयी धर्मविजयी। प्रवालोऽतिशिशुरङ्कुरो वा।परिगृहीता विवाहिता । प्रसह्य हठात्। दोस्तम्भेति । अयं राम इत्यध्याहार्यम् । दोःस्तम्भद्वयदर्पाणां डम्बरो विस्तारः स्यादिति कृत्वा स्पष्ट व्यक्तं न विस्पन्दते न प्रकाशयति । वैदेहीकरबन्धसूचनं सीताविवाहकथनं स्यादिति कृत्वा ब्रीडया लज्जया न प्रस्तौति नाख्याति । इत्यालोच्य ज्ञात्वा कृता स्मितैर्मुनिभिः शतानन्दादिभिरादिष्टेन येन रामेण तागतिदुराकर्षणं धनुः सहसात्तं गृहीतम्, वन्दितं नमस्कृतम्, आञ्चितं नामितम्, अनन्तरं भन्ममिति।येन महेशधनुरारोप्य भग्नं तस्य कलत्रापहरणेऽवश्यमनिष्टं स्यादिति भावः । ननु 'मुनिभिरा' इत्यत्र द्वादशेऽक्षरे यतिभङ्गो दोषः, पदमध्ये यतेरसंभवादिति चेत् । न । विशेषगुणेनादोषत्वात् । केचित्पाठविश्राम यतिमाहुः । तथा चोक्तम्-'विश्रामो यतिरुच्यते' इति । वस्तुतस्तु. यत्र श्रवणोद्वेगो बन्धपारुष्यादिकं वावयवान्तरेण प्रच्छाद्यते तत्र न दूषणम् । तथा च मुनिभिरादिष्टेनेत्यत्र न श्रवणोद्वेगो न वा बन्धपारुष्यादिकमिति न दोषः। तस्मिन् रामे। आततायी कलत्रापहारी । 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥' इति स्मृतिः । जधेति । 'यथा निरूपितं मातामहेन । अहो कालस्य माहात्म्यम्, यदिदानी त्रिभुवनजयलक्ष्मीलीलाबन्दीकारे महाराजरावणेऽप्येवं मन्त्र्यते' [इति च्छाया। ] इह मातामहो मातृपिता । मुनिरपीति । एतां जगत्रयीं
१. निजधर्मविजयिना'; 'धर्मविजयिना'. २. 'अश्चितम्'. ३. 'कथं तस्मिन्'. ४. 'दीर्घमुष्णं च निश्वस्य'.
अन० १४
For Private and Personal Use Only