________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
काव्यमाला। त्तिकेन क्षात्रेण ब्राह्मण्येन ब्राह्मणेन च जन्मना त्रिजातकादस्मान्मुनेरधीयानोऽधरीणं(णः) परिणस्यते । तथाहि ।
अविनयभुवामज्ञानानां शमाय भवन्नपि _प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये । फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ
विषधरफणारत्नालोको भयं तु भृशायते ॥ १२ ॥ भवतु । किमतिकान्तोवर्णनेन । कथं त्विदानीं स्वयंग्रहीतुमुत्तिष्ठमानो राक्षसपतिः प्रतिकर्तव्यः स्यात् ।
शूर्पणखा-अज, ण खु मोट्टिमं परिहरन्तो अण्णो उवाओ ल. खीअदि ।
त्यर्थः । यथा-'स्थानिवदादेशोऽनल्विधौ' इति सूत्रसामर्थ्यादादेशः स्थानित्वं न जहाति तथा कौशिकस्य ब्राह्मणादेशोऽपि स्थानिवत्त्वेन क्षत्रकार्य मारणादिस्वरूपं न त्यजतीत्यर्थः । स्वभावमधुरो निसर्गसुन्दरः । औत्पत्तिकेनोत्पत्तिभवेन क्षात्रमयेन । ब्राह्मण्येन ब्रह्म तपोधनमुपनयनव्रतं वा तद्भवेन । ब्राह्मणेन विशुद्धमातापितृयोनिजत्वेन । एतत्रितयानुगतेन जन्मना त्रिजातकाजन्मत्रययोगिनः । अथ च त्रिजातकमिति गालिदानम् । मुनेरिति 'आख्यातोपयोगे' इत्यपादानसंज्ञा । अधीयानोऽध्ययनं कुर्वन् । 'इङ् अध्ययने' । शानच् । अधरीणं निन्दितम् । 'अवरीणो धिकृतः' इत्यमरः । परिणस्यते स्वयं परिणतो भविष्यति । सदपि वस्त्वसत्संसर्गात्सत्कार्य जहा तीत्याह- अविनयभुवामिति । भवत्यस्मादिति भूः स्थानम् । शमाय शान्तये । प्रकृतिकुटिलास्वभाववक्रात् । खलत्वविवृद्धये दौर्जन्यसंपत्तये । दृष्टान्तेन खोक्तं द्रढयति-असो विषधरफणारत्नालोकः फणिभयपोषकाणां तमसामन्धकारागामुच्छेदक्षमोऽस्तु तथापि भयं पुनर्भृशायते । अभृशं भृशं भवति । अत्यर्थे भवति । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' इति क्यङ् । 'फणिभयभृतां मास्तूच्छेदक्षमः' इति पाठे फणिभयपोषकाणां तमसामुच्छेदक्षमो मास्तु भयं पुन शायतेऽत्यर्थेन भवति । तस्मादित्यर्थः । यद्वा तमसां छेदक्षमो मास्तु फणिभयभृतां जनानां भयं पुनरत्यर्थेन भवति । ये सर्पाद्विभ्यति तेषां ततो भयमेव विषधरसंबन्धाद्भवतीति भावः । उत्तिष्टमानो यत्नं कुर्वाणः । 'उदोऽनूर्ध्वकर्मणि' इति तङ् । प्रतिकर्तव्यः प्रतिविधातव्यः । अजेति । 'आर्य, न खलु मोटिम परिहरतोऽन्य उपायो लक्ष्यते' [इति च्छाया । इह मोटिमं बलात्कारे देशी । तथा च बलात्कारं १. अधीयन्नधरीणशील.'. २. 'अस्तु च्छेद-'. ३. वर्णितेन'. ४. कथं वेत्थमिदानीम्'.
For Private and Personal Use Only