________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः]
अनर्घराघवम् । माल्यवान्—(निःश्वस्य ।) अतिप्रकाशोऽयमों यथा निवृत्तखीकरणा जानकीति ।
शूर्पणखा-अध इं।
माल्यवान्--(विमृश्य ।) अहो दुरात्मनः क्षत्रियब्राह्मणस्य कुशिकजन्मनो दुर्नाटकम् ।
यज्ञोपप्लवशान्तये परिणतो राजा सुतं याचित
स्तं चानीय विनीय चायुधविधौ ते जनिरे राक्षसाः । त्रैयक्षं विदलय्य कार्मुकमथ स्वीकार्य सीतामितो ___ नो विद्मः कुहनाविटेन बटुना किं तेन कारिष्यते ॥ ११ ॥
शूर्पणखा-अज, एव्वं णेदम् । सो मए तत्थ बह्मणो वसिट्टमहेसिणो वि फुरन्तो दिट्टो ।
माल्यवान्-(विहस्य ।) वत्से, तपोभिरस्य ब्राह्मणादेशोऽपि स्थानिवद्भावेन क्षत्रकार्य न जहाति । किं च खभावमधुरोऽपि काकुत्स्थबटुरौत्पच्छाया । इह क्षत्रियाणां गोदानस्वरूपमङ्गलपूर्वको विवाहः क्रियत इत्याचारः । अर्थों विषयः । खीकरणं विवाहः । 'अथ किम्' स्वीकारे । दुर्नाटकं दुश्चेष्टा । यज्ञोपप्लवेति । उपप्लवो विघ्नः । मुतं याचित इत्यत्र यद्यपि कर्मणि क्तः, तथाप्यत्राप्रधानकर्मणस्तेनाभिहितत्वात्सुतमिति द्वितीया । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहार्दानाम्' इति वचनात् । विनीय शिक्षयित्वा । जन्निरे हताः । 'हन हिंसागयोः' । लिट् । कर्मणि तङ् । 'गमहन--' इत्युपधालोपः। 'हो हन्ते:-' इति हस्य घत्वम् । त्र्यक्षो महेशस्तस्येदं त्रैयक्षम् । 'तस्येदम्' इत्यण् । 'न य्वाभ्यां-' इत्यैच् । विदलय्य भङ्कत्वा । 'दल विदारणे' । चुरादावदन्तः । अथानन्तरम् । स्वीकार्य विवाह्य । इतोऽस्मादनन्तरम् । कुहना दम्भाचरणं तया विटो धूर्तः । 'कुहना दम्भच. ायाम्' इति मेदिनीकरः । 'कुहना लोभान्मिथ्येर्यापथकल्पना' इत्यमरः । तेन बटुना कौशिकेन किं कारिष्यते किं कर्तव्यमिति नो विद्मो न जानीमः । यद्वा नो विद्मोऽपि तु जानीम एव । अनन्तरं रावणवधो येन कार्य इति भावः । कारिष्यत इति कर्मणि लट् । 'स्यसिच-' इत्यादिना वृद्धिरिडागमश्च । अजेति । 'आर्य, एवमेतत् । स मया तत्र ब्राह्मणो वसिष्टमहर्षरपि स्फुरन्दृष्टः' [इति च्छाया । इह ब्राह्मणः कौशिकः । तपोभिरस्यति । आदेशोऽतिदेशः। स्थानिवद्भावेन, स्थानं प्रकृतधर्मोऽस्यास्तीति स्थानी, स्थानिना तुल्यं वर्तते स्थानिवत् । तस्य भावेन तत्त्वेन । तथा च क्षत्रियत्वेने
१. 'प्रतिपदप्रकाशः'.
For Private and Personal Use Only