SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। अपि च । श्रुत्वा दुःश्रवमद्भुतं च मिथिलावृत्तान्तमन्तःपत चिन्तापह्नवसावहित्थवदनत्वग्विप्रकीर्ण स्मितः । हेलाकृष्टसुंरावरोधरमणीसीमन्तसंतानक स्रग्वासोज्ज्वलपाणिरप्यवति मां वत्सो न लकेश्वरः ॥ ८॥ (विमृश्य । आकाशे ।) अहह, दारुणेयमस्माकं चिरजीविता । प्रीते विधातरि पुरा परिभूय मां न्वत्रेऽन्यतो यदभयं स भवानहंयुः । तन्मर्मणि स्पृशति मामतिमात्रमद्य हा वत्स शान्तमथवा दशकंधरोऽसि ॥ ९॥ तेजो रामरूपम् । एतत्कर्म न निरभिसंधि न निरभिप्रायम् । तावदिति लोकोक्तौ । दशाननस्य तानि चरितानि दुष्टचरितानि धिक् । धिग्योगे द्वितीया । नो ममाक्षिषु दर्शनपथेषु रजनी रात्रिः प्रभाति प्रतिभाति । चिन्तया जागरणेऽपि चक्षुष्यन्धकार इवेति भावः । न इति 'अस्मदो द्वयोश्च' इत्येकत्वे बहुवचनम् । श्रुत्वेति । लकेश्वरो रावणो मां नावति न प्रीणाति । कीदृशः । दुःश्रवं कर्णकटु । रामकर्तृकसीतापरिणयात् । अद्भुतमाश्चर्यजनकम् । हरधनुर्भङ्गात् । एतादृशं मिथिलावृत्तान्तं श्रुत्वा अन्तरभ्यन्तरे पतन्ती या चिन्ता तस्या अपह्नवेन गोपनेन सावहित्थान्याकारगुप्तिसहितानि यानि वद. नानि तेषु दशसु मुखेषु त्वचि त्वचि प्रतित्वम् विकीर्ण दर्शितं स्मितमीषद्धासो येन सः । मुखैकदेशकृताल्पहास इत्यर्थः । हेलया लीलयाकृष्टा या सुरावरोधरमणीनां देवान्तःपुरस्त्रीणां सीमन्तेभ्यः संतानकस्रग्देववृक्षमाला तस्या वासेन सौरभेणोज्ज्वलः ख्यातः पाणिर्यस्य स तथा । 'स्रग्दामोज्ज्वल-' इति पाठे स्रगेकमाला, दाम मालासमूहः, इत्यनयोभैदः । यद्वा स्रगेव स्रग्दाम । यथा सूत्रं सूत्रतन्तुरिति । सीमन्तः केशरचनाभेदः । 'सिचमि' इति प्रसिद्धः । 'अवहित्थाकारगुप्तिः' इत्यमरः । अहह खेदे । दारुणा कठिना। -प्रीते विधातरीति । स भवानित्याकाशे । विधातरि शिवे प्रीते सति मान्मनुष्यान्परिभूयानादृत्यायुरहंकारयुक्तः सन्पुरा पूर्व यदन्यतो मत्लान्येभ्योऽभयं वत्रे वृतवांस्तदतिमात्रमत्यर्थं मां मर्मणि हृदि स्पृशति । मानुषाद्रामाद्रावणस्याहितं भविष्यतीति भावः । रामादहितं निश्चित्याह-हा वत्सेति । हा कष्टम् । हे वत्स, कष्टमित्यर्थः । इह शान्तमिति मङ्गलोक्तिः । रावणस्यापि शौर्यातिशयं स्मृत्वा हृदयप्रबोधायाह-अथवेति । एककंधरो रामो दशकंधरेण त्वया विनाश्य इति भावः। अहंयु १. 'सुरावरोधनवधू-'; 'सुराधिराजरमणी-'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy