________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४९
४ अङ्कः]
अनर्घराघवम् । (सविमर्शम् ।) अहो मैथिलस्य नृपतेरकार्यज्ञता ।
विश्वामित्रवशीकृते हृदि वयं मा भूम संबन्धिन- : __ते दृष्टा न कथं पुराणमुनयो मान्याः पुलस्त्यादयः । जामातापि महेन्द्रमौलिवलभीपर्यङ्करत्नाङ्कुर
___ज्योत्स्नापुष्टनखेन्दुदीधितिरयं नापेक्षितो रावणः ॥ १० ॥ (पुरोऽवलोक्य ।) कथं मिथिलाचरितानि चरितुमनुप्रहिता चिरयति वेत्सा शूर्पणखा ।
(प्रविश्य शूर्पणखा ।) शूर्पणखा—(सहर्षम् ।) अम्महे, सोम्मसुन्दरविआहणेववच्छलच्छीविच्छरिदकान्तिपब्भाराई रहुउलकुमाराणं मुहपुण्डरीआई पेक्खन्ती जुउच्छिदेणावि माआमाणुसीभावेण कदत्थीकिदम्हि । अम्मो सा तारिसी गुणाणं पकिदी जा विपक्खहत्थपडिदावि सुहावेदि । रिति 'अहंशुभमोर्युस्' । अकार्यज्ञत्वे हेतुमाह-विश्वामित्रेति । विश्वामित्रेण वशीकृतेऽनायत्तीकृते हृदि सति वयं संबन्धिनो मा भूम मा भविष्यामः । ते पुनः पुराणमुनयः पुलस्त्यादयो मान्याः कथं न दृष्टाः । पुलस्त्यापत्यत्वादपि रावणो वरीतुमर्हतीति भावः । ननु भवन्तु पुलस्त्यादयो मान्यास्तथापि वरगुणाभावादेव रावणो न वृत इत्यत आह-अयं रावणोऽपि जामाता नापेक्षितः। कीदृशः । महेन्द्रमौलिरेव वलभी प्रासादोपरिगृहं तदेव पर्यङ्कः । 'पालक' इति प्रसिद्धः खटाभेदः । तत्रस्थो यो रत्नाङ्कुरस्तस्य ज्योत्स्नया पुष्टा नखचन्द्रदीधितिर्यस्य । तादृशोऽपीत्यर्थः । चरितुं गन्तुं चरक्रियां विधातुं वा । चिरयति विलम्बते। अम्महे इत्यादि । 'अम्महे, सौम्यसुन्दरविवाहनेपथ्यलक्ष्मीविच्छर्दितकान्तिप्रारभाराणि रघुकुलकुमाराणां मुखपुण्डरीकाणि प्रेक्षमाणा जुगुप्सितेनापि मायामानुषीभावेन कृतार्थीकृतास्मि । अहो सा तादृशी गुणानां प्रकृतिर्या विपक्षहस्तपतितापि सुखयति' [इति च्छाया । इह अम्महे विस्मये । 'अम्मो अम्महे इति पदं कुर्यात्स्त्रीणां तु विस्मये' इति भरतः । यद्वा अम्ब हे मातः । सौम्या प्रियदर्शना सुन्दरी शोभावती विवाहलक्ष्मीः । यद्वा सोम एव सौम्यः । खार्थिकः घ्यञ् । सोमस्य चन्द्रस्येव सुन्दरी विवाहलक्ष्मीः । 'सामसुन्दरी' इति (पाठे) श्यामसुन्दरी या विवाहलक्ष्मीविवाहाधिष्ठात्री देवता तस्या नेपथ्यं शोभालंकरणं वा । यद्वा श्यामसुन्दरेण रामेण सह विवाहस्तस्य नेपथ्यं प्रसाधनं तस्य लक्ष्मीः शोभा । विच्छर्दिता अतिशयिता या कान्तिस्तस्याः प्राग्भारो विस्तारो येषु तानि रघुकुलकुमाराणां चतुर्णा मुखपुण्डरी
१. 'नावेक्षितः'. २. 'वत्सामे'.
For Private and Personal Use Only