SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] अनर्घराघवम् । १४७ (अन्यतश्च दृष्ट्वा ।) इतो रम्यतरं वर्तते । प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरी नवोढा न व्रीडामुकुलितमुखीयं सुखयति । लिखन्तीनां पत्राङ्कुरमनिशमस्यास्तु कुचयो ___श्चमत्कारो गूढं करजपदमासां कथयति ॥ ६ ॥ (मुहूर्तमनुध्याय ।) अहो यतःप्रभृति वैदेहीवरणाय प्रहितेन पुरोधसा कथ्यमानं ककुत्स्थकुलकुमारस्य मौनुष्यकातिशयमशृणवम्, ततःप्रभृति कष्टां दशामनुभवामि । तथाहि । तत्तादृशं कथमुदेति मनुष्यलोके तेजोऽद्भुतं निरभिसंधि न तावदेतत् । तान्येव चास्य चरितानि दशाननस्य धिक्चिन्तया रजनिरक्षिषु नः प्रैभाति ॥ ७ ॥ स्यादेवं विवदन्ते विवादं कुर्वन्ति । न मम स्तने नखक्षतं न वा रोमाञ्चस्तत्र, किं त्यागन्तुकोऽयं कोऽपि वेषभेद इति परस्परमनयोर्विवाद इति भावः । विवदन्त इति 'भासन-' इत्यादिना विमतौ तहः । करजा नखाः । 'पुनर्भवः कररुहो नखोऽस्त्री' इत्यमरः । सामान्यवनितानां संभोगमुक्त्वा नायिकाविशेषसंभोगमाह-प्रभात इति । अन्यतोऽन्यत्र चेयं काचित्सहचरीः सखीः कर्मभूताः न सुखयति । कीदृशीः । प्रभाते प्रातःकाले, अनु रामीपं रहोऽनुरहसम् । 'अन्ववतप्तादहसः' इत्यच् समासान्तः । यद्वा रहोऽनु लक्षीकृत्य । अव्ययीभावः । पूर्ववदच् । तत्र वृत्तं कथां पृच्छन्तीः । कथं रहोवृत्तान्तेन सहचरीने सुखयतीत्यत आह-नवोढा नवविवाहिता यतः, अत एव सखीवचःश्रवणानन्तरं वीडया लजया मुकुलितमुखी नम्रमुखी । तु पुनः, अस्याः कुचयोश्चमत्कारश्चेष्टाविशेष आसां सखीनां कृते गूढं गुप्तमप्रत्यक्षं करजपदं नखस्थानं कथयति । स्वामिनो रहोवृत्तं लज्जया वक्तुमशक्ता वारंवारं रहोवृत्तं पृच्छन्त्यः सख्यः कुचयोनखवृत्तेनैवमेकान्तकर्तृकानुरागं जानन्त्वित्याशयेन चेष्टाविशेषेण तया कथितमिति भावः । कीदृशीनाम् । अनिशं वारंवारं पत्राङ्कुरं पत्रावलीलिखन्तीनाम् । प्रभृतिशब्दोऽयमारभ्यार्थोऽव्ययः । यतःप्रभृति यत आरभ्येत्यर्थः। पुरोधसा शौष्कलेन । मानुष्यकं मनुष्यकर्म । 'योपधाद्गुरूपोत्तमाद्वञ्' । अशृणवं श्रुतवानस्मि । 'श्रु श्रवणे' । लङ् । मिपोऽम्भावः । दशामवस्थाम् । तत्तादृशमिति । तादृशमनिर्वचनीयम् । अद्भुतमाश्चर्यजनकम् । १. 'इतः' इत्यादि पुस्तकान्तरे नास्ति. २. 'मनुष्याति-'. ३. 'प्रयाति'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy