________________
Shri Mahavir Jain Aradhana Kendra
१४६
अपि च ।
इतश्च ।
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अयं मृदुमृणालिनीवनविलासवैहासिकस्त्विषां वितपते पतिः सपदि दृश्यमाना निजाः । स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्ययितवृत्तयो घुसृणपङ्कपत्राङ्कुराः || ४ ||
प्रियवसतेरपयान्त्यो मिथः करम्बितकराम्बुजन्मानः । करजत्रणविरलस्तन पुलकममूः किमपि विवदन्ते ॥ ५ ॥
1
संबद्धायाम् । ककुभि दिशि । पुरसस्त्यक् । अम्बरमणिः सूर्यः । किरण एव कलिका तां विवृणोति प्रकाशयति । मर्म हृदयादि । इत इहप्रदेशे । काचिद्वधूर्नवरतौ गुरोरध्यापकस्य । अभिनवनायकस्येत्यर्थः । उरो हृदयं प्रोञ्छति । निष्कामन्ती सती । कीदृशम् । निजकस्तूरीपत्रावलीमकरिकया मुद्रितं चिह्नितम् । अयमाशयः - नवजारस्य वक्षसि कस्तूरिकापत्रावलीदर्शनेनान्यज्ञानं स्यात् । तथा च वल्लभस्य पुनरागमनं न भवेदिति कामिन्या तदुरः प्रोञ्छनम् । यद्वा एतद्दर्शनान्मम ज्ञानं मा भूदिति कृत्वा कामिन्या नवजारवक्षः प्रोञ्छितम् । यद्वा नवरतिगुरोः सकाशान्निर्गच्छन्ती स्वीयमेवोरस्तादृशं प्रोञ्छति काचित् । सा हि कुलस्त्री नूतनाभिसारिका । ततो गोपनार्थमिदम् । यद्वा नवरतिगुरोर्नवस्वामिनो वधूर्नवोढा उरः प्रोञ्छति तादृशम् । एतद्दर्शनाच्छुश्रवादिभिर्ज्ञातव्यमिति लज्जा स्यात् । अयमिति । अयं त्विषां पतिः सूर्ये वितते । 'उद्विभ्यां तपः' इति तङ् । मृदु कोमलं यन्मृणालीवनं पद्मिनीकाननं तस्य यो विलासस्तस्य वैहासिकः केलिकर्ता । विदूषक इत्यर्थः । विहासो विहसितं तेन दीव्यतीति वैहासिकः । ‘तेन दीव्यति-' इति ठक् । 'वैहासिकः केलिकरः प्रहासी च विदूषकः' इति भरतः । यद्वा वैहासिकः प्रकाशकारी । सपदि तत्क्षणादेव निजाः स्वीया दृश्यमाना घुसृणपङ्कपत्राङ्कुराः कुङ्कुमपङ्कपत्रावल्यः कर्त्रीभूता उत्पलदृशां स्तनौ कर्मभूतौ पुलकयन्ति रोमाञ्चयन्ति । प्रियाश्लेषस्मरणादिति भावः । घुसृणं कुङ्कुमम् । प्रियोरःस्थले विपर्ययिता विपर्ययं वैपरीत्यं प्राप्ता वृत्तिर्येषां ते । पुरुषायिते हि स्त्रिया अधोमुख्याः कान्तसमालिङ्गनाद्वामदक्षिणस्तनयोर्वैपरीत्येन पत्रावली स्थितेति भावः । विपर्ययितेति तारकादित्वादितच् । कुलवधूसंभोगमुक्त्वा वारवनितासंभोगमाह - प्रियेति । वसतेर्गृहात् । 'वसतिगृहयामिन्योः' इति शाश्वतः । अपयान्त्यो निःसरन्त्यः । मिथो रहसि परस्परं वा । करम्बितं मिलितमालम्बितं वा । अम्बुजन्म पद्मम् । अमूः स्त्रियः । किमप्यनिर्वचनीयखरूपम् । करजत्रणैर्नखक्षतैर्विरला व्याप्ता ये स्तनास्तेषां पुलकं रोमाश्चं यथा १. 'अपि च' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only