________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः] अनर्घराघवम् ।
१४५ अपि च ।
प्राची वासकसज्जिकामुपगते भानौ दिशां वल्लभे ___ पश्यैता रुचयः पतङ्गदृषदामागेयनाडिंधमाः । लोकस्य क्षणदानिरङ्कुशरसौ संभोगनिद्रागमौ
__कोकस्तोमकुमुद्वतीविपिनयोनिक्षेपमातन्वते ॥ २ ॥ (सर्वतो निरूप्य ।) हन्त समन्तादामोदमानपौरसंभोगमयी खल्वियं दशग्रीवैभुजार्गलापरिपालिता राजधानी ।
इतः पौरस्त्यायां ककुभि विवृणोति क्रमदल.
त्तमिस्रामर्माणं किरणकलिकामम्बरमणिः । इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः
खकस्तूरीपत्राङ्कुरमकरिकामुद्रितमुरः ॥ ३ ॥
तु करटारिष्टबलिपुष्टसकृत्प्रजाः' इत्यपि । ननु काकशब्दस्य व्यभिचारित्वात्कथं प्रातर्निर्णय इत्यत आह–प्राचीमिति । पश्येत्यस्य वाक्यार्थ एव कर्म । एता रुचयो लोकस्य संभोगनिद्रागमौ रमणखापौ कर्मभूतौ कोकस्तोमे चक्रवाकसमूहे कुमुदतीविपिने कुमुदिनीवने च निक्षेप न्यासं 'स्थगी' इति प्रसिद्धमातन्वते विस्तारयन्ति । कीदृशौ । क्षणदायां रात्रौ निरङ्कुशोऽनिवारितो रसो ययोस्तादृशौ । रात्रौ संभोगनिद्रयोरन्यकार्याभावाद्रसनिष्पत्तिरिति । चक्रद्वन्द्वे रतिः, कुमुदिनीवने संकोचो निक्षेप इति भावः । क्व सति । दिशां वल्लभे भानौ सूर्य प्राची पूर्वी दिशमुपगते सति । कीदृशीम् । वासकसज्जिकां नायिकाभेदमिति रूपकम् । वासकसज्जिकालक्षणम्---'वासवेश्मनि सुकल्पितशय्या या समागमविधिं विदधाना । तिष्ठति प्रियसमागमसज्जा तामिहाकलय वासकसज्जाम् ॥' 'वासवदीक्षिताम्' इति पाठे वासवेनेन्द्रेण चिह्नभूतेन दीक्षितां कथिताम् । ऐन्द्रीति व्यपदेशात् । यद्वा दीक्षितां स्वीकृताम् । 'दीक्षा स्वीकार आदेशे' इति विश्वः । कीदृश्यो रुचयः । पतङ्गदृषदां सूर्यकान्तमणीनामाग्नेयनाडिंधमा आग्नेयनाडीमापिकाः । अग्नेरियमानेयी । 'सर्वत्राग्निकलिभ्यां ढक्' । आग्नेयनाडीतोऽनिरुत्तिष्ठति । आग्नेयनाडी धमन्त्यग्निसंयुक्तां कुर्वन्ति । 'नाडीमुष्ट्योश्च' इति खश् । 'पतङ्गः सूर्ये शलभे' इति विश्वः । 'कोकश्चक्रश्चक्रवाक-' इत्यमरः । 'कुमुदती कुमुदिन्याम्' इति च । हन्त हर्षे । आमोदमानो हृष्यन् । पौरः पुरवासी । संभोगः सुखम् । खलु निश्चये । राजधानी नगरी । इत इत्यादि । इतोऽत्र प्रदेशे । आधादित्वात्तसिः । पौरस्त्यायां पूर्व
१. 'कोकद्वन्द्व-'. २. 'निरूप्य सहर्षम्'. ३. 'मोदमान'. ४. 'भुजार्गलपालिता'.
For Private and Personal Use Only