________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
काव्यमाला ।
चतुर्थोऽङ्कः।
(ततः प्रविशति माल्यवान् ।) माल्यवान्—(जृम्भमाणश्चक्षुषी परिमृज्य ।) अये विभातैव विभावरी । तथाहि ।
स्तोकोन्निद्रनिदाघदीधितिमहस्तन्द्रालुचन्द्रातपा
स्तायन्ते ककुभो रथाङ्गगृहिणीगार्हस्थ्यगर्हाभिदः । अद्यापि स्वकुलायशाखिशिरसि स्थित्वा रुवन्तो मुहु
स्तूष्णीं प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान् ।। १ ।। तृतीयाङ्कन सीतायाः परिणयनं प्रतिपाद्य सांप्रतं पञ्चमाङ्कप्रतिपन्नमर्थ सूचयन्नेव 'अण्णं वि एत्थ अणत्थंतरं परापडिदं' इत्यादि वक्ष्यमाणेन चतुर्थाङ्कपर्यवसन्नं जामदग्न्यविजयं सूचयितुम् 'तन्मत्रिणं माल्यवन्तं पुरस्कृत्य लङ्केश्वरस्य निवेदयामि' इत्यनेन सूचितप्रवेशस्य माल्यवतः प्रवेशमाह-ततः प्रविशतीति । जृम्भमाणः 'जांभी' इति प्रसिद्धां कुर्वन् । विभाता प्रातःकालीना । विभावरी रात्रिः । शौष्कलमुखावगतसीतापाणिग्रहण रावणाय निवेदयितुं राजकुलगमनस्यानुकूलिकत्वेन प्रातर्वर्णनमाह-स्तोकोन्निद्रेति । ककुभो दिशस्तायन्ते स्फीता भवन्ति । 'ताय संताने' धातुः । कीदृशाः । स्तोकोनिद्रमल्पप्रकाशि यनिदाघदीधितिमहः सूर्यतेजस्तेन तन्द्रालवो निद्रालसाश्चन्द्रातपाश्चन्द्रकिरणा यासु ताः । 'स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्' । 'आतपो रश्मिमात्रे च सूर्यरयमौ च दृश्यते' इति धरणिः । रथाङ्गगृहिण्याश्चक्रवाक्या गार्हस्थ्ये या गर्दा निन्दा तस्या भेदिकाः । रात्रावेकत्र स्थितयोरपि संगमाभावादनित्योऽयं संसारस्त्याज्यः । कृतं गार्हस्थ्येनेत्यादिरूपा या मतिरुदेति तामेव पुनरुदिते सूर्ये तयोरेवान्योन्यसंगतयोविपरीततां दिशो नयन्तीति भावः । ननु विभातैव विभावरीति कुतो ज्ञातमित्यत आह-अद्यापि । सूर्योदयं यावदपीत्यर्थः । बलिभुजः काका भीताः सन्तः तूष्णीं मूकीभूय स्वयूथ्यवरान् यूथ्यो यूथसंबन्धी । 'दिगादिभ्यो यत्' । प्रत्यभिजानते सम्यक्प्रकारेण जानन्ति । स्वीयः कुलायः पक्षिगृहं यत्र शाखिनि स खकुलायशाखी तस्य शिरसि स्थित्वा रुवन्तः शब्दं कुर्वन्तः । प्रत्यभिजानत इत्यत्र 'अनुपसर्गाज्ज्ञः' इति न तङ् । अस्य सोपसर्गत्वात् । नापि 'संप्रतिभ्यामनाध्याने' इति तङ् । अभिना प्रतेय॑वधानात् । मैवम् । प्रतिना धातोर्योगं कृत्वा 'संप्रतिभ्यामनाध्यने' इति तडं विधाय पश्चादभिना संबन्धः । स्वतन्त्रेच्छाया नियन्दुमशक्यत्वात् । विवक्षायाश्च प्रयोगेऽभ्यर्हितत्वात् । यद्वा प्रत्यभिजानते मिथः पूर्वानुभूतान्स्मरन्ति । 'कर्मव्यतिहारे तङ्' । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः । 'कुलायो नीडमस्त्रियाम्' इति च । 'काके
१. 'विजृम्भ-प्रमृज्य'. २. विभातप्रायैव विभावरीयम्'. ३. स्त्यायन्ते'. ४. शिखरे'.
For Private and Personal Use Only